- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
आवर्तः २५४ – श्रुत्युक्तक्रमेण जगदुत्पत्तिकथने सूत्रकारभाष्यकृतोरभिप्रायः
यदपि *१ सूत्रभाष्यकृतौ द्वितीयाध्याये जगदुत्पत्तिप्रतिपादकश्रुतिवाक्यानां परस्परविरोधं परिहरन्तौ तैत्तिरीयोक्तसृष्टिक्रम एव सर्वोपनिषदामर्थ इति वर्णतवन्तौ, तन्मन्दाधिकारिसमाधानार्थमिति ज्ञेयम्। “पूर्वं वर्णितमुत्पत्तिवाक्यानां वस्तुभूतमभिप्रायमवगन्तुमसमर्था मन्दजिज्ञासवः परस्परविरुद्धानि वाक्यानि दृष्ट्वा भ्रान्ता मा भूव”न्निति, सूत्रभाष्यकृतौ सर्वोपनिषदामाकाशादिक्रमेणैव जगदुत्पत्तौ तात्पर्यमिति प्रदर्शयामासतुः।
*१. सूत्रशब्देन व्यासकृतब्रह्मसूत्रम्, भाष्यशब्देन श्रीशङ्करभगवत्पादभाष्यं च ग्राह्यम्।
किञ्च वेदान्तविचारेण यथार्थज्ञानमलभमानस्य लयचिन्तनार्थमपि श्रुतीनां वैमत्यपरिहारेण विवक्षितो जगदुत्पत्तिक्रमः सूत्रभाष्यकृद्भ्यां प्रदर्शितः।
येन क्रमेणोत्पत्तिस्तद्विपरीतक्रमेण जगतो लयश्चिन्तनीयः। तथा लयचिन्तनेनाद्वितीये ब्रह्मणि बुद्धिः स्थिरा भवेत्। सोऽयं लयचिन्तनप्रकारः वार्तिककारैः सुरेश्वाचार्यैः पञ्चीकरणाख्यग्रन्थे वर्णितः। अस्य ग्रन्थस्य *१ उत्तमाधिकारिविषयत्वाद्यद्यपि जगदुत्पत्तिलयक्रमवर्णनस्य नात्रावसरस्तथापि सागररूपत्वादस्य ग्रन्थस्य मन्दानुग्रहाय सङ्क्षेपतः स उच्यते। असङ्गत्वादक्रियत्वाच्च शुद्धब्रह्मणः सकाशाज्जगदुत्पत्त्यादिकं न सङ्गच्छते। किन्तु *२ मायाविशिष्टशबलब्रह्मणः सकाशाज्जगदुत्पद्यते। तस्मान्मायेश्वरयोः स्वरूपं प्रतिपाद्यते।
*१. दृष्टिसृष्टिवादैकसत्तावादैकजीववादेषु दृढतरसंस्कारवान् उत्तमाधिकारी।
*२. जगद्विवर्तोपादानभूतमधिष्ठानं मायोपहितचैतन्यमेव न तु मायाविशिष्टम्। तथापि मायाविशिष्टस्योपादानत्वं ततो जगदुत्पत्तिश्चाविवेकिदृष्ट्योच्यते। विवेकिदृष्ट्या तु जगतः परिणाम्युपादानं वा विवर्तोपादानं वा न मायाविशिष्टचैतन्यम्। किन्तु जगतः परिणाम्युपादानं केवला माया। विवर्तोपादानं मायोपहितचैतन्यम्। अविवेकिनस्तूभयविधमुपादानत्वं मायाविशिष्टचैतन्ये भ्रान्त्या प्रतीयते। तस्माच्छास्त्रकारैरविवेकिनां दृष्टिरनूद्यते केवलम्, न तु तात्पर्येणोच्यते इति ज्ञेयम्।