- २५२-२८३ संसारविषयकविचारः
- २५२-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
आवर्तः २५३ – स्वप्नवद् विना क्रमं जगतः प्रतीतिः
स्वाप्नपदार्था यथा क्रममन्तरेणाप्युत्पद्यन्ते तद्वदेव मिथ्याजगत्प्रतिभासते। मिथ्याजगतः क्रमजिज्ञासुः मरीचिकोदकावगाहनमपीच्छेत्। उपनिषत्सु जगदुत्पत्तिरनेकधा वर्णिता। जाग्रत्स्वप्नयोः सर्वथा साम्यमेव श्रूयते – “तस्य त्रय आवसथास्त्रयः स्वप्नाः” ( ऐ. १.३) इति। अत एव तत्र युगपत्सृष्टिरप्युक्ता। “स इमान् लोकानसृजत” ( ऐ. १.१) इति। “स इदं सर्वमसृजत। यदिदं किञ्च” (तै. ब्र. ६) इति च। तथैव पञ्चदश्यामप्युक्तम् –
स्वप्नेन्द्रजालसदृशमचिन्त्यरचनात्मकम्।
दृष्टनष्टं जगत्पश्यन् कथं तत्रानुरज्यति॥ तृ. १७१॥
स्वस्वप्नमापरोक्ष्येण दृष्ट्वा पश्यन् स्वजागरम्।
चिन्तयेदप्रमत्तः सन्नुभावनुदिनं मुहुः॥ १७२॥
चिरं तयोः सर्वसाम्यमनुसन्धाय जायते।
सत्यत्वबुद्धिं सन्त्यज्य नानुरज्यति पूर्ववत्॥ १७३॥
निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम्॥ वि. चू. २५२॥
स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या
भोत्रादि विश्वं मन एव सर्वम्।
तथैव जाग्रत्यपि नो विशेषः
तत्सर्वमेतन्मनसो विजृम्भणम्॥ वि. चू. १७०॥
इत्यादिना चोक्तम्।
ननु यदि जगदुत्पत्तिरक्रमेण तर्हि किमिति तैत्तिरीयादिषु क्रम उक्त इति चेदत्रोच्यते। यदि श्रुतेः जगदुत्पत्तिविषये क्रमविवक्षा स्यात्तर्हि श्रुतिषु सृष्टिकथने वैषम्यं न स्यात्। दृश्यते तु वैषम्यम्। तथा हि छान्दोग्ये ब्रह्मणः सकाशादग्निजलपृथिवीनां क्रमेणोत्पत्तिः श्रूयते – “तदैक्षत। बहु स्यां प्रजायेयेति। तत्तेजोऽसृजत” (छा. ६.२.३) इत्यादिना। तैत्तिरीये आकाशवाय्वग्निजलपृथिवीनां पञ्चभूतानां क्रमेणोत्पत्तिः श्रूयते – “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” (तै. ब्र. १) इत्यादिना। क्वचिच्च परमेश्वरः सर्वमसृजदिति क्रममन्तरैवोत्पत्तिः श्रूयते “इदं सर्वमसृजत” (तै. ब्र. ६) इत्यादिना। इत्थं वेदेषु जगदुत्पत्तेर्नानाप्रकारेण वर्णनस्यायमाशयः – जगन्मिथ्यैव। वस्तुभूतं चेज्जगत् स्यात् तदुत्पत्तिक्रमो वेदेष्वनेकप्रकारेण नोच्येत। वस्तुनि विकल्पासंभवात्। अतश्चोपनिषदां जगदुत्पत्तिक्रमे न तात्पर्यम्। ब्रह्मणोऽद्वितीयत्ववर्णने परमतात्पर्यात्तदङ्गत्वेन जगन्निषेधस्य विवक्षितत्वान्निषेध्यत्वेनाक्षिप्तस्य जगतो यथाकथञ्चिदारोपः कर्तव्य इत्येव तात्पर्यम्। तत्रायं दृष्टान्तः – लीलार्थं कश्चन कृत्रिमं गजं निर्माय यन्त्रेण तमाकाशे उत्थापयति। आकाशगमनसमये तस्य गजस्य कर्णवालाद्यवयवेषु वक्रतासम्पत्तौ तत्समीकरणाय स पुरुषो न प्रयतते। एवमेव ब्रह्मणोऽद्वितीयत्वज्ञानसिद्धये द्वैतरूपो दृश्यप्रपञ्चो निषेधार्थं कल्पितः। तथा च भाष्ये प्रकृतैतावत्त्वाधिकरणे (३.२.६) वर्णितम् – “लोकप्रसिद्धं त्विदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय चेति निरवद्यम्” इति। तस्माच्छ्रुतीनां प्रपञ्चविषयेऽनादरादेव तदुत्पत्तिक्रमस्यैकविधत्वेन वर्णने न यत्नः। तदुत्पत्तिविषये श्रुतीनां विगानदर्शनादेव प्रपञ्चनिषेध एव श्रुतीनां नैर्भर्यं न तदुत्पत्ताविति ज्ञेयम्।