ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः


आवर्तः २८३ – पञ्चकोशविवेकप्रकारः

स्वप्नावस्थायां स्थूलदेहो न भाति। परन्त्वात्मा भासते। तथा सुषुप्तौ सूक्ष्मशरीरस्य ज्ञानं न भवति। सुखस्वरूप आत्मा स्वयंप्रकाशस्वरूपेण प्रतीयते। सुषुप्तौ सुखज्ञानाभावे ‘सुखमहमस्वाप्सम्’ इति स्मृतिः सुप्तोत्थितस्य न स्यात्। तथा स्मृतेर्जायमानत्वादेव सुषुप्तौ सुखानुभवोऽभ्युपेयः। तच्च सुखं सुषुप्तौ न विषयजन्यम्। तदा *२ सर्वकार्यप्रपञ्चप्रविलयात्। किन्तु तदात्मस्वरूपसुखमेव। स चात्मा स्वयंप्रकाशस्वरूपः। तस्मात् सुखस्वरूप आत्मा स्वयंप्रकाशरूपेण सुषुप्तौ भासते। निदिध्यासनफलभूतनिर्विकल्पकसमाधौ त्वात्मा अज्ञानकृतावरणरहितः प्रकाशते। कारणशरीररूपाज्ञानमपि तदा न भासते। इत्थं देहत्रयं *३ व्यभिचरति एकामवस्थां विहायावस्थान्तरे अभानात्। तस्माद्देहत्रयमव्यापकमनित्यं च। आत्मा तु सर्वावस्थास्वनुगततया भाति। तस्माद्व्यापको नित्यश्च। इत्थं देहत्रयविलक्षणतया विविच्यात्मानं जानीयात्। तत्र स्थूलशरीरम् अन्नमयकोशः, कारणशरीरम् आनन्दमयकोशः। सूक्ष्मशरीरे प्राणमयमनोमयविज्ञानमयाख्यास्त्रयः कोशा अन्तर्भूताः। तस्माच्छरीरत्रयविवेकेन पञ्चकोशविवेको जायते। यथा पञ्चकोशविलक्षणं जीवस्वरूपं तथैवेश्वरस्वरूपमपि समष्टिपञ्चकोशविलक्षणमस्ति। चतुर्थतरङ्गे चतुर्विधाकाशदृष्टान्तेन जीवेश्वरयोर्लक्ष्यस्वरूपविवेचनं विस्तरेणोक्तम्। उपरि षष्ठतरङ्गेऽपि अस्ति-भातिप्रियरूपनिरूपणप्रसङ्गे महावाक्यार्थनिरूपणप्रसङ्गे चात्मनः परमार्थस्वरूपं निरूपयिष्यते। सङ्ग्रहेणात्रात्मविवेचनं कृतम्।

*२. प्रातीतिकत्वं वेदान्तसिद्धान्ते जगतः स्फुटम्।
सुषुप्तौ तु जगल्लीनं प्रबोधे जायते पुनः॥
दृष्टसृष्टिमिमां ब्रह्मानुभवी बहुमन्यते। इति।

*३. (१) स्थूलदेहविवेचनम् – यथा घटस्योत्पत्तिविनाशयोः प्रागूर्ध्वं च विद्यमानत्वादेकत्वाच्चाकाशो घटाद्विभिन्नोऽव्यभिचारी च तथा स्थूलदेहस्य जननमरणयोः प्रागूर्ध्वं च विद्यमानत्वादेकत्वाच्चात्मा स्थूलदेहाद्भिन्नोऽव्यभिचारी च। घट इव स्थूलदेहो जननमरणयोः प्रागूर्ध्वं चावर्तमानत्वादनेकत्वाच्चात्मनो भिन्नो व्यभिचारी च। यदधिकदेशकालवर्ति तदव्यभिचारीत्युच्यते। सर्वशरीरवर्त्यात्मा एक एव। तस्मादाकाशवदात्मा व्यापकः। अतः सर्वदेशवर्ती भवत्यात्मा। देहानामुत्पत्तिमरणयोः प्रागूर्ध्वं चात्मास्ति। तस्मादात्मा कालत्रयाबाध्यः सर्वकालवर्ती च भवति। एवं सर्वदेशकालवर्तित्वादात्मा अव्यभिचारी। यद्धि वस्तु स्वल्पदेशे स्वल्पकाले च वर्तते तद्व्यभिचार। घट । देहोऽपि परिच्छिन्नः स्वल्पदेशे वर्तते। उत्पत्तिनाशवांश्च देहः सर्वकालवर्ती न भवति, किन्तु स्वल्पकाले एव वर्तते। अतः स्वल्पदेशकालवर्तित्वात् स्थूलदेहो व्यभिचारी। एवं देहात्मनोर्व्यभिचारित्वाव्यभिचारित्वरूपविलक्षणधर्मवत्त्वादेव तयोः परस्परं भेदः सिद्ध्यति। तस्मान्नाहं स्थूलदेहः। नापि मदीयोऽसौ देहः। किन्तु देहः पञ्चभूतकार्यत्वाद्भौतिकः। मम स्थूलदेहव्यतिरिक्तत्वादेव च तदाश्रितनामरूपजात्याश्रमकर्मादयो धर्मा न मां स्पृशन्ति। नापि ते धर्मा मत्संबन्धिनः। इति स्थूलशरीरविवेकः

(२) सूक्ष्मदेहविवेचनम् – सुषुप्तिर्मूर्च्छा मरणं प्रलयो ज्ञानमिति पञ्चस्ववस्थासु लिङ्गदेहः स्वकारणेऽज्ञाने लीयते। तस्मात् सूक्ष्मदेहो व्यभिचारी असंश्च। आम सर्वकालेष्वपि प्रकाशमानत्वादव्यभिचारी। अतः सद्रूपश्च। सद्रूपत्वादात्मा न लिङ्गदेहः। लिङ्गदेहोऽपि नात्मसंबन्धी। स त्वपञ्चीकृतपञ्चमहाभूतकार्यम्। तस्मान्नाहं लिङ्गदेहः। कर्तृत्वभोक्तृत्वसुखदुःखादिलिङ्गदेहधर्मा अपि नाहम्। नापि ते धर्मा मदीयाः। तेषां साक्ष्यहं तेभ्यो भिन्नः। इति सूक्ष्मदेहविवेचनम्।

(३) कारणदेहविवेचनम् – अज्ञानमेव कारणदेहः। नाहं कारणदेहः। सोऽपि न मदीयः। कारणशरीरधर्मावावरणविक्षेपावपि नाहम्। न तौ धर्मो मदीयौ। तयोः साक्ष्यहं ताभ्यां भिन्नः। इति कारणशरीरविवेचनम्।

(४) जाग्रदवस्थाविवेकः – स्वप्नसुषुप्त्यवस्थाविलक्षणत्वे सति अवस्था नाम दशा भोगकालविशेषरूपा इन्द्रियजन्यज्ञानतत्संस्काराधारभूतः । कालविशेषो जाग्रदवस्था। तस्यामवस्थायां चतुर्दशत्रिपुटीभिर्जीवो व्यवहरति। अस्यामवस्थायां षड्विशेषाः (१) अवस्थातो जीवस्य स्थानं चक्षुः। सकलशरीरवर्तिनोऽपि जीवस्य चक्षुषो मुख्यस्थानत्वात्तदेव स्थानमित्युक्तम्। (२) शक्तिः क्रिया। (३) वाणी वैखरी। (४) भोगः स्थूलः। (५) गुणः सत्त्वम्। (६) संज्ञा विश्वः। इयं जाग्रदवस्था स्वप्नसुषुप्त्यवस्थयोर्व्यभिचरतीति असन्मयी। तत्साक्षिभूतस्त्वात्मा सर्वास्वप्यवस्थास्वनुवर्तमानत्वात्सत्यस्वरूपः। तस्माज्जाग्रदवस्थातोऽयं विलक्षणो जीवः। इति जाग्रदवस्थाविवेकः।

(५) स्वप्नावस्थाविवेकः – यस्यामवस्थायामिन्द्रियाणामुपरमात् तत्साहाय्यमन्तरेणैव मनो हिताख्यनाड्यन्तः जाग्रत्संस्कारवशात् विषयाकारेण परिणतं सत् स्वयंज्योतिःस्वरूपेण साक्षिणानुभूयते सावस्था स्वप्नावस्था। अत्र जीवस्य (१) स्थानं कण्ठः। (२) शक्तिर्ज्ञानम्। (३) वाणी मध्यमा। (४) भोगः सूक्ष्मः। (५) गुणो रजः। (६) संज्ञा तैजसः। इति स्वप्नावस्थासामग्र्यः। जाग्रत्सुषुप्त्यवस्थयोरियं स्वप्नावस्था न भवति। आत्मा त्ववस्थात्रयसाक्षित्वात् स्वप्नावस्थातोऽपि विलक्षणः। इति स्वप्नावस्थाविवेकः।

(६) सुषुप्त्यवस्थाविवेकः यस्यां केवलं सुखमज्ञानं चानुभूयते सा सुषुप्तिः। अस्याः सामग्र्यः (१) स्थानं हृदयम्। (२) शक्तिर्द्रव्यस्वरूपिणी। ज्ञानक्रियात्मव्यवहाराभावात् केवलज्ञानस्वरूपेणैव द्रव्येण सत्त्वात् द्रव्यशक्तिरित्युच्यते। (३) वाणी पश्यन्ती। (४) भोग आनन्दः। (५) गुणस्तमः। (६) संज्ञा प्राज्ञः। न जाग्रत्स्वप्नावस्थयोः सुषुप्त्यवस्थास्ति। आत्मा त्ववस्थात्रयसाक्षित्वात् सुषुप्त्यवस्थातो विलक्षणः। इति सुषुप्त्यवस्थाविवेकः।