-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
आवर्तः २५० – शुक्तिरजतादेर्ब्रह्मज्ञानमन्तरा बाध्यत्वे, संसारदुःखस्य ब्रह्मज्ञानेनैव बाध्यत्वे च विनिगमकप्रश्नः
ननु ब्रह्मभिन्नं निखिलं मिथ्येति पूर्वमुपदिष्टम्। तादृशमिथ्यापदार्थेषु शुक्तिरजतरज्जुसर्पमृगतृष्णिकोदकादयो ब्रह्मज्ञानमन्तरैव बाध्यन्ते, संसारदुःखं तु ब्रह्मज्ञानेनैव बाध्यत इति भेदे को हेतुः। सोऽयं संशयश्छेत्तव्य इति शिष्यो गुरुं पृच्छति।