ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्


आवर्तः २५१ – यदज्ञानाद्यस्योत्पत्तिस्तज्ज्ञानात् तस्य बाध इत्युत्तरम्

ब्रह्मणोऽन्यस्य सर्वस्याविद्याकार्यत्वान्मिथ्यात्वं सममेव। नैवात्र द्वैते सत्यत्वगन्धोऽप्यस्ति। परन्तु यदज्ञानाद्यदुत्पद्यते तज्ज्ञानेन तद्बाध्यत इति नियमः। रज्जुशुक्तिकोषराद्यज्ञानात् सर्परजतोदकादिकमुत्पन्नम्। रज्वादिज्ञानेन सर्पादयो बाध्यन्ते। तथैवाद्वितीयप्रत्यगभिन्नब्रह्मणोऽज्ञानाद्विजृम्भितमिदं जननमरणादिदुःसहसंसारदुःखमप्यद्वितीयप्रत्यगभिन्नब्रह्मसाक्षात्कारेण बाध्यते।