ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्


आवर्तः २४९ – गुरुवेदान्तादेः संसारदुःखस्य चोभयोरपि व्यावहारिकसत्ताकत्वाद् गुरुवेदान्तादिना संसारदुःखनिवृत्तिर्युक्ता

इत्थं गुरुवेदान्तादेः संसारदुःखस्य चैकैव व्यावहारिकी सत्ता। ततः समसत्ताकत्वात्तयोः मिथ्यागुरुवेदान्तादिना मिथ्यासंसारदुःखं निवर्त्यतैव। क्षुत्पिपासादिकं तु प्राणधर्मः। प्राणाः तद्धर्माश्च ब्रह्मज्ञानमन्तरा न निवर्तन्ते। अतः पिपासा व्यावहारिकसत्ताका। मरीचिकोदकं तु ब्रह्मज्ञानं विनैव मरुभुमिज्ञानेन बाध्यते। अतो मरीचिकोदकं प्रातिभासिकसत्ताकम्। मरीचिकोदकपिपासयोः समसत्ताकत्वाभावान्न मरीचिकोदकेन पिपासोपशमो भवति। दाष्टति तु बाधकगुरुवेदान्तादेर्बाध्यसंसारदुःखस्य च समाना सत्ता। दृष्टान्ते तु मरीचिकोदकपिपासयोः विषमा सत्ता। तस्माद्दृष्टान्तो विषमो दान्तिकाननुरूपः। विषमत्वम् = भिन्नविषयत्वम्।