ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्


आवर्तः २४६ – व्यावहारिकसत्ता

यस्य पदार्थस्य ब्रह्मज्ञानमन्तरा न बाधः, किन्तु ब्रह्मज्ञानेनैव बाधो भवति तस्य व्यावहारिकसत्तात्वेन व्यपदेशः। ब्रह्मज्ञानेतराबाध्यत्वे सति ब्रह्मज्ञानमात्रबाध्यत्वं व्यावहारिकसत्त्वमिति यावत्। सा च सत्तेश्वरसृष्टपदार्थेष्वस्ति। यतो देहेन्द्रियादिप्रपञ्चरूपेश्वरसृष्टेर्ब्रह्मज्ञानमन्तरा न बाधो भवति, किन्तु ब्रह्मज्ञानेनैव भवति। तस्मादीश्वसृष्टपदार्था व्यावहारिकसत्ताका इति ज्ञेयम्। बाधो नामापरोक्षमिथ्यात्वनिश्चयः। तथा चोक्तं पञ्चदश्याम् –

नाप्रतीतिस्तयोर्बाधः किन्तु मिथ्यात्वनिश्चयः।
नो चेत् सुषुप्तिमूर्च्छादौ मुच्येतायत्नतो जनः॥ चि. १३॥

परमात्मावशेषो हि तत्सत्यत्वविनिश्चयः।
न जगद्विस्मृतिर्नो चेज्जीवन्मुक्तिर्न संभवेत्॥ १४॥

अयं चापरोक्षमिथ्यात्वनिश्चय ईश्वरसृष्टपदार्थेषु ब्रह्मज्ञानात्प्राङ्ग कस्यचिदपि भवति। किन्तु ब्रह्मज्ञानादनन्तरमेव तादृशनिश्चयो भवति। अतो मूलाविद्याकार्यजाग्रत्पदार्थात्मकेश्वरसृष्टौ व्यावहारिकसत्ता विद्यते। जन्ममरणबन्धमोक्षाद्यखिलव्यवहारसिद्धिप्रयोजिका सत्ता व्यावहारिकसत्तेति वर्ण्यते।