ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्


आवर्तः २४५ – समसत्तकयोः परस्परं साधकता बाधकता च

??? परस्परं सत्ता समाना तयोरेव तद्यथा मृदो घटस्य च सत्ता

संसारदुःखस्य गुरुवेदान्तादीनां च समाना सत्तास्ति। तस्माद्गुरूपदेशेन वेदान्तवाक्यैश्च संसारदुःखक्षयो युज्यते। ययोः *१ परस्परं साधकता वा बाधकता वा भवति। समाना। तस्मान्मृद्घटस्य साधिका। वह्नेः काष्ठस्य च सत्ता समाना। अतो वह्निः काष्ठस्य बाधको भवति। साधकम् = कारणम्। बाधकम् = नाशकम्। मरीचिकोदकस्य पिपासायाश्च सत्ता न समाना। अतो मरीचिकोदकं न पिपासाया बाधकम्। मरीचिकोदकं पिपासां न निवर्तयतीति यावत्। अत्रेदमाकूतम् – चैतन्ये पारमार्थिकी सत्तास्ति। चैतन्यभिन्नेषु मिथ्यापदार्थेषु व्यावहारिकी वा प्रातिभासिकी वा सत्तास्ति।

*१. अत्रैवं शङ्का भवेत् समसत्ताकयोरेव परस्परं साधकबाधकभाव इति नियमो नास्ति; यतो विषमसत्ताकयोरपि क्वचित्साधकबाधकभावो दृश्यते। तथा हि, सर्वत्राधिष्ठानस्य सत्तापेक्षया आरोप्यस्य सत्ता विषमैव। अथाप्यारोप्यस्याधिष्ठानं साधकं भवति। कल्पितरजतस्याधिष्ठानं शुक्तिः। शुक्तेः सत्ता व्यावहारिकी। कल्पितरजतस्य सत्ता प्रातिभासिकी। तादृशरजतस्य साधकत्वम् (कारणत्वम्) शुक्तावस्ति। किञ्च जगतोऽधिष्ठानं ब्रह्म। ब्रह्मणि पारमार्थिकी सत्तास्ति। जगति तु व्यावहारिक सत्ता। व्यावहारिकसत्ताकजगतः साधकत्वं ब्रह्मण्यस्ति। तस्माद्विषमसत्ताकमपि साधकं भवति।

अपि चान्तःकरणवृत्तिरूपशुक्तियाथार्थ्यज्ञानेन रजततज्ज्ञानयोर्बाधो भवति। रजततज्ज्ञानयोः सत्ता प्रातिभासिकी। शुक्तियाथार्थ्यज्ञानस्य तु सत्ता व्यावहारिकी। अतश्च विषमसत्ताकमपि बाधकं भवति। तथा च विषमसत्ताकयोः परस्परं साधकबाधकभावो नास्तीति नियमोऽसङ्गत एव। इति।

अत्रैवं समाधानं भवति – केवला शुक्तिर्न रजतस्याधिष्ठानम्, न वा केवलं ब्रह्म जगतोऽधिष्ठानम् (विवर्तोपादानकारणम्)। किन्तु तूलाविद्यासहिता शुक्तिः रजतकल्पनाधिष्ठानम्, मूलाविद्यासहितं ब्रह्म जगत्कल्पनाधिष्ठानम्। क्वचिद्विशेषणगतधर्मा विशिष्टेऽपि व्यवह्रियन्ते। अनेन नियमेन प्रातिभासिकतूलाविद्यासहिता शुक्तिः, अथवा शुक्त्यवच्छिन्नचैतन्यं प्रातिभासिकमिति वर्ण्यते। व्यावहारिकमूलाविद्यावच्छिन्नं ब्रह्मचैतन्यं व्यावहारिकमित्यप्यभिधीयते। यद्यप्यविद्या उपाधिरेव न विशेषणम्, अथापि अविवेकिदृष्टौ विशेषणवदुपलभ्यमानत्वाद्विशेषणमिति व्यवह्रियते। अत एवाविद्याधर्मभूतप्रातिभासिकसत्ता व्यावहारिकसत्ता वा तद्विशेष्य (आश्रय) भूतशुक्तौ ब्रह्मणि वा व्यवह्रियते। विषमसत्ताकं साधकम्, किन्तु समसत्ताकमेव साधकम्।

किञ्च पञ्चपादिकाकाररीत्या मूलाविद्यातोऽन्या तूलाविद्या नास्ति। तस्मात्तन्निवृत्तिः शुक्तिज्ञानान्न भवति। किन्तु ब्रह्मज्ञानेनैव। परन्तु व्यावहारिकान्तःकरणवृत्तिरूपशुक्तिगोचरयथार्थज्ञानेन शुक्तिनिष्ठाविद्यायास्तिरस्कारो भवति। ततस्तत्कार्यरजततज्ज्ञानयोरपि तिरस्कारो भवति। अतो नात्र विषमसत्ताकं बाधकम्। एतञ्च प्रासङ्गानुसारि समाधानम्। तत्त्वदृष्ट्या विचार्यमाणे तु अधिष्ठानरूपसाधके अधिष्ठानज्ञानरूपबाधके च समसत्ताकत्वनियमो नास्ति। तथा हि अधिष्ठानरूपं साधकं विषमसत्ताकमेव न क्वचि - दपि समसत्ताकम्। अधिष्ठानज्ञानरूपं बाधकं तु क्वचिद्विषमसत्ताकम्; यथा शुक्तिरजतस्य बाधकं शुक्तिज्ञानम्, स्वाप्नजगतो बाधकं जाग्रज्ज्ञानं च बाध्यापेक्षयाधिकसत्ताकत्वाद्विषमसत्ताकम्। क्वचित्तु समसत्ताकमपि भवति; यथा व्यावहारिकजगतो बाधकं ब्रह्मज्ञानम्।

परन्तु मिथ्याज्ञानमेव मिथ्यावस्तुनो बाधकमिति नियमो भवत्येव। तस्मादिहोक्तो यो नियमः स अधिष्ठानरूपसाधकमधिष्ठानज्ञानरूपबाधकं च विनावशिष्ट पदार्थविषयक इति ज्ञेयम्।