-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
आवर्तः २४४ – मरीचिकोदकेन पिपासानिवृत्तिर्भवत्विति शङ्का। सत्तावैषम्यात्तत्परिहारश्च
ननु मिथ्यामरीच्युदकेन न पिपासोपशमो भवति। तथा मिथ्यागुरुवेदान्तादिनापि न संसारदुःखनाशोऽपि स्यात्। यदि स्यात्तर्हि मरीचिकोदकेनापि पिपासोपशमोऽपि भवेत्। न तु तथानुभूयते इति चेन्न। दृष्टान्तस्य वैषम्यात्। प्रातिभासिकमरीच्युदकेन व्यावहारिकपिपासोपशमाभावेऽपि व्यावहारिकगुरुवेदान्तादिसाधनेन व्यावहारिकसंसारदुःखनिवृत्तिः संभवेदेव। मरीचिकोदकपिपासयोः सत्तावैषम्यात्, गुरुवेदान्तादिसाधनस्य संसारदुःखस्य च समानसत्ताकत्वाच्च दृष्टान्तवैषम्यं बोध्यम्।