- २२७-२४९ श्रीसद्गुरोरुत्तरम्
आवर्तः २४३ – दृष्टान्तसमन्वयपूर्वकं मिथ्यासंसारदुःखस्य मिथ्यागुरुवेदान्तादिसाधनेन निवृत्त्युपपादनम्
पूर्वोक्तदृष्टान्तस्यायमभिप्रायः – संसारदुःखं मिथ्या। तस्मात्तन्निवर्तकगुरुवेदान्तादिसाधनेनापि मिथ्याभूतेन भाव्यम्। मिथ्यावस्तुनिरसने सत्यसाधनापेक्षा नास्ति। सत्यसाधनेन न मिथ्यावस्तु नश्यति। पूर्वोक्तदृष्टान्ते राज्ञः शयनगृहं प्रविष्टो मिथ्यासृगालो न सत्यदौवारिकेन निवारितः। राजसकाशे सत्स्वप्यनेकेषु सत्यायुधेषु तैरनिवारितः मिथ्यासृगालो मिथ्यालगुडेनैव ताडितः पलायितः। राज्ञो मिथ्याव्रणमभूत्। तद्वणं न सत्यवैद्येन चिकित्सितम्, किन्तु मिथ्यापरिव्राजकेन। राज्ञो मिथ्यादुःखम्, तत्कारणं मिथ्यासृगालं च दूरीकर्तुं न किञ्चिदपि सत्यसाधनमुपयुक्तमभवत्। ईदृशः स्वप्नः सर्वसाधारण एव। जाग्रत्कालीनोपकरणानि कदाचिदपि कस्यचिदपि न स्वप्ने उपयुज्यन्ते। एवं मिथ्याभूतं संसारदुःखं मिथ्यागुरुवेदान्तादिसाधनेन नश्येत्। न मिथ्यासंसारः स्वनिवर्तनाय सत्यगुरुवेदान्तादि साधनमपेक्षते।