ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्


आवर्तः २४२ – मिथ्यासंसारदुःखं मिथ्योपायेन निवर्तेतेत्येतदुपपादनाय काचन कथा

यदुक्तं गुरुवेदान्तादयो मिथ्या। कथं ते संसारदुःखनिवर्तनक्षमा इति, तत्रोच्यते संसारदुःखं मिथ्या। तस्मान्मिथ्योपायेन तन्निवर्तेत; समसत्ताकयोर्निवर्त्यनिवर्तकभावदर्शनात्। गुरुवेदान्तादयो यदि सत्यास्तर्हि तैर्मिथ्यासंसारदुःखं न निवर्तेत। अत्र कश्चन दृष्टान्तो वर्ण्यते देवेन्द्रवत्पराक्रमशाली सार्वभौमः कश्चनासीत्। स कदाचित् निशितकृपाणपाणिभिरहर्निशमनिद्रैर्जागरूकैः रक्षिभिर्गुप्ते हर्म्यतले पुष्पास्तीर्णे मचे रात्रौ शयानः स्वप्नमेवमपश्यत् - जम्बुकः कश्चन तस्य पादमेकं मुखेनाग्रहीत्। पादविधूननेन जम्बुकमपसारयितुं न राजा शशाक। क्रोशमानस्यापि राज्ञः साहाय्यार्थं न कश्चिदपि सौविदल्ल आजगाम। ततः स स्वयमेवोत्थाय लगुडेन जम्बुकं मस्तकेऽताडयत्। स सृगालः पलायितः। परन्तु स्वप्ने जम्बुकदष्टे पादे महती व्यथाभवत्। व्यथामसहमानो राजा दण्डावलम्बनो मन्दं मन्दं भिषजः कस्यचिद्गृहं गत्वा तं क्षतविरोपणक्षममौषधमयाचत। स च भिषक् हस्तगमौषधमिदानीं नास्ति। यदि दीयते धनं तह्यैषधं सम्पाद्य दद्यामित्यवोचत्। वैद्यस्य वचनं श्रुत्वा राजा स्वहस्ते तदानीं वराटिकाया अप्यभावाद्दीनदीनः प्रतिनिवर्तमानो मनस्येवमचिन्तयत् ‘यद्यहं धनी स्यां तदायं भिषक मम गृहं पुनः पुनरागच्छेत्। दरिद्रोऽयम्, न मेऽस्त्यनेन प्रयोजनमिति मत्वा हि नायं मे औषधमदात्। नास्त्यपराधोऽस्मिन् प्रति प्रयोजनमन्तरा न कोऽपि कस्मैचिदप्युपकरोति। मातापितृदारापत्यादयः सर्वेऽपि स्वात्मनः कामायैवान्यत्र प्रीतिमावहन्ति। प्रयोजनाभावे न ते चक्षुषापि वीक्षेरन्। यस्य वियोगं क्षणार्धमपि सोढुं ये न शेकुः यस्य क्षणमात्रवियोगेनाप्यतिदुःखमन्वभन्, विप्रोष्यागतं यं दर्शनमात्रेण समालिलिङ्गुः, स एव यदि दुर्दैववशात् कुष्ठी भवति, तदा तं त एव भार्यापुत्रादयः नानेनेतः परं प्रयोजनमिति निश्चिन्वन्तः रूक्षवचनैर्विनिन्दन्ति। ‘अरे पाप किमद्यापि जीवसि न म्रियसे, परित्यज प्राणान्´ इति कटु भाषन्ते। चक्षुषापि तं द्रष्टुं नेच्छन्ति दृष्ट्वा जुगुप्सन्ते च। पतिव्रतापि भार्या दूरतः स्थित्वा तदङ्गगतमक्षिकादीन् निःसारयति। यमुत्सङ्गे निवेश्य लालनपूर्वकं पुपुषतुर्मातापितरौ तावपि तदपेक्षितं दत्वा दूरं निःसरतः। अन्ये बान्धवाः पराङ्मुखा भवन्ति। एवं सर्वो लोकः स्वात्मप्रयोजनायैवान्यमाश्रयन्ति। अयमपि भिषक् निर्धनोऽहमिति निश्चित्य न मे औषधमदात्’ इति चिन्तयन्नेव राजा वैद्यगृहात्प्रतिनिवृत्तः। तत्र मध्ये मार्गं कञ्चन परिव्राजकमपश्यत्। स च राज्ञे किमप्यौषधमदात्। तदुपयोगेन राज्ञो निःशेषतया व्रणविरोपणमभवत्। एवं स्वप्नं पश्यत एव राज्ञो निद्राक्षयोऽभूत्। राजा प्रबोधमवाप। जाग्रता तेन न सृगालः, न तेन कृतं पादक्षतम्, न दुःखम्, न परिव्राजकः, नौषधं वा किञ्चिदपि दृष्टम् एवं दृष्टान्तभूतां कथामुक्त्वा गुरुराह ‘हे शिष्य, अनेन दृष्टान्तेनैवं विजानीहि – अनृतेनैवानृतं निवर्तेत। राज्ञो मिथ्यादुःखे सञ्जाते न सत्यम् (व्यावहारिकम्) किञ्चिदपि वस्तु तद्दुःखनिवृत्तये प्रबभूव। एवमनृतेनैव गुरुवेदान्तादिरूपसाधनेनानृतं संसारदुःखं निःशेषं निवर्तेत’।