ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्


आवर्तः २४१ – भर्च्छुदृष्टान्तस्य प्रकृतेन योजनम्

भर्च्छदृष्टान्तस्य प्रकृतेन योजनम् प्रतारकमन्त्रिवाक्यं सत्यत्वेन गृह्णन् राजा वने जीवन्तं भच्छु स्वचक्षुषा पश्यन्नपि प्रतारकस्य मिथ्यावाक्ये विश्वासेन भच्छु पिशाचमेव मन्यमानो यथा सुदूरं प्राद्रवत्, तथा द्वैतिनां भेदवादे विश्वसन्नपरिपक्वमतिरज्ञानी ‘तत्त्वमसि’ इति गुरूपदिष्टमहावाक्यजन्यसाक्षात्काररूपब्रह्मात्मैक्याकारान्तःकरणवृत्त्युदयेऽपि भेदवादिनो मिथ्यावाक्यविश्वासेन महत्तरं दुःखमेवानुभवेत्। न तस्य कदापि ब्रह्मात्मैक्यसाक्षात्कारो भवेत्। भेदवादमसत्यतया गृह्णतो जिज्ञासोरेव महावाक्याद्ब्रह्मात्मैकत्वसाक्षात्कारो भवेत्। तस्मादवैदिकत्वाद्भेदवादो मिथ्या, न परमपुरुषार्थसाधक इति निश्चित्य तत्र विश्वासो दूरीकर्तव्यः।