-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
आवर्तः २४० – मृगयार्थं वनं गतो राजा भर्च्छुं दृष्ट्वा भीतः पलायते
भर्च्छस्थानापन्नो मन्त्री भच्छुवृत्तान्तं सर्वं श्रुत्वा स्वानुयायिभिः सहैवं समालोचयत् यदि राजा ‘भच्छुर्जीवति’ इति लोकवार्तां शृणोति, अथवा मृगयार्थं वनं गत्वा स्वयमेव भछु पश्यति तदा मिथ्यावादिनोऽस्मान् स राजा सुतीक्ष्णं दण्डयेत् इति। एवमालोच्य सपरिवारो राजानमासाद्य ‘दस्युभिर्युद्धे मृतो भछुः पिशाचो भूत्वा भस्मोद्धूलितसर्वाङ्गो वने सञ्चरति। स्वदृष्टिगोचरापन्नं सर्वं जनं मारयति। यस्तं दृष्ट्वा सुदूरं पलायते स जीवेत्’ इति विज्ञापयामास। मन्त्रिवाक्यश्रवणमात्रेण राजा तत्त्वमविचारयन्, ‘मृतो भछुः पिशाचः समभवत्’ इति निश्चिकाय। ततः कदाचिदाखेटार्थं गतो भच्छ्रुवनं प्रविवेश। तत्र तरुमूले तपश्चरन्तं भछु दृष्ट्वा प्रतारकमन्त्रिवाक्यं स्मरन् ‘नूनमयं भच्छुः पिशाचः’ इति भयेन पलायितः।