ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्


आवर्तः २३९ – धनसङ्गजदुःखम्

दारापत्यादिकं परित्यज्य धनमेव काङ्क्षतो महत्तरं दुःखम्। *१ धनं ह्यर्जने, व्यये, रक्षणे, हानौ च दुःखमेव विधत्ते। अनवधिकधनार्जनासक्तः पुरुषो निरवधिकान् पापानाचरति। नानानर्थभाजनं च भवति। धनसम्पादनप्रवृत्तो जातिकुलधर्मांस्त्यजति। नानाघोरकर्मणा धनार्जने प्रवृत्तोऽपि स्वपूर्वादृष्टायत्तमेव धनं लभते नाधिकम्। व्यये सति धनं क्षीयेतेति भीत्या न स्वभोगायापीषदपि धनव्ययं करोति। किन्तु महान्तं क्लेशमनुभवन्नानाकुमार्गैस्तद्धनं वर्धयन्नेव म्रियते। स्वभोगाय वा परोपकाराय वा विनियोगेऽसति यदि दैववशाद्धनं नश्यति तदापारे शोकसागरे निमज्जति। इत्थं धनमनन्तदुःखकारणं भवति।

इत्थं सुनिपुणं विचार्य भच्छुर्दारापत्यधनाद्यभिमानं दूरीकृत्य वने एकाकी सन् शमदमादिसाधनाभ्यासनिरतो बभूव।

१. अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये।
नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम्॥ भा. ११.२३.१७॥

स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः।
भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च॥ १८॥

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम्।
तस्मादर्थमनर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत्॥ १९॥

भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा।
एकास्निग्धाः काकणिना सद्यः सर्वेऽरयः कृताः॥ २०॥

अर्थेनाल्पीयसाप्येते संरब्धा दीप्तमन्यवः।
त्यजन्त्यसून् मिथो घ्नन्ति सहसोत्सृज्य सौहृदम्॥ २१॥

लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्विजाग्र्यताम्।
तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम्॥ २२॥

स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान्।
द्रविणे कोऽनुषज्येत मर्त्योऽनर्थस्य धामनि॥ २३॥

कस्मात् संश्लिष्यते विद्वान् व्यर्थयार्थेहयासकृत्।
कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः॥ २६॥

इति श्रिमद्भागवते एकादशस्कन्धे त्रयोविंशाध्याये भिक्षुगीतायामुक्तमम् अयमर्थः – अर्थस्य सम्पादने वर्धने चातिदुःखम्। रक्षणे महद्दुःखम्। व्यये भोगे च महती चिन्ता। नाशे चित्तभ्रान्तिः। अर्थप्राप्तये स्तेयादयः षडनर्थाः। प्राप्तेऽर्थे स्मयादयः षडनर्थास्त्रिविधव्यसनैः सह नवानर्थाः। तस्मादेकोऽप्यर्थः पञ्चदशानर्थानां निदानं भवति। व्यसनानि = स्त्रीद्यूतमद्यविषयाणि त्रीणि।

एकास्त्रिग्धाः = एके = एकप्राणाः, ते च ते आस्त्रिग्धाश्चातिप्रिया इत्यर्थः। काकणिरित्यार्षं पुंस्त्वम्। (काकिणी) काकणिः विंशतिवराटिकाः। “वराटकानां दशकद्वयं यत् सा काकिणी” इति लीलावत्याम्। संरब्धाः = क्षुभिताः। मिथः = परस्परम्। स्पृध इति पाठे स्पर्धमाना इत्यर्थः। न केवलमिहैवानर्थहेतुरर्थः परलोकेऽपीत्याह लब्ध्वेत्यादिना। तत् मानुष्यं जन्मेति संबन्धः। द्विजाग्र्यताम् = ब्राह्मण्यम्। स्वार्थं घ्नन्ति = स्वहितं नाचरन्ति। लोकम् = देहम्।