ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्


आवर्तः २३८ – पुत्रसङ्गजदुःखवर्णनम्

यथा भार्या तथा पुत्रोऽपि दुःखहेतुः। अनुत्पन्नपुत्रस्य तदभावप्रयुक्तदुःखमेकमेव। उत्पन्नपुत्रस्य दुःखं तु नानाप्रकारम्। तथा हि, स्त्रियो गर्भधारणाभावे दम्पत्योरहोरात्रं तदेकचिन्तया दुःखम्। दैववशाद्गर्भधारणे सति विना दुरितं प्रसवविषयिणी चिन्ता। जायमानस्यापत्यस्य स्त्रीत्वपुत्रत्वविषयिणी चिन्ता। गर्भविच्छेदहेतोरानन्त्यादसम्पूर्णेषु मासेषु स्त्रावादिदोषं विना दशमे मासि सुखप्रसूतिविषयिणी चिन्ता। प्रसूतिसमये मातुर्जीवितविषयिणी चिन्ता। जातस्य शिशोर्विना बालारिष्टादिकं जीवनविषयिणी चिन्ता। जातशिशोर्नवानामपि ग्रहाणामानुकूल्यस्य लोके दुर्लभतरत्वाद्वित्राणां ग्रहाणां विषमगतिं श्रुत्वा दम्पत्योरहोरात्रं चिन्ता। जातश्च शिशुः स्तन्यं चेन्न पिबति तदाश्रुवृष्टिरेव दम्पत्योर्भवति। ईदृक्चिन्तया सहैव कतिपयमासेषु गतेषु दन्तोत्पत्तिदशायां केषाञ्चिच्छिशूनां बालारिष्टवशान्मरणं श्रुत्वा मातापितृभ्यां व्यसनमनुभूयते। व्याध्यादिना कृशीभूते शिशौ चतुष्पथेषु पीडानिवृत्त्यर्थं बलिहरणं कुर्वन्ति। तत्सौख्यार्थं चण्डालो वा पुल्कसो वान्त्यजो वा म्लेच्छो वा अत्यन्तापशदो वा भवतु यः कश्चन मान्त्रिकः, भिषग्वा तेन मन्त्रयन्ति भिषज्यन्ति च। तदर्थमधी भूत्वा म्लेच्छाद्याराधितदेवता अपि प्रणमन्ति। असम्भाष्येण सह पुत्रवात्सल्येन स्नेहं कुर्वन्ति। भैरवाद्यनेकदेवतोद्देशेन स्वप्रार्थनासिद्ध्यर्थं श्मशानभूमौ बलिं निक्षिपन्ति। स्वस्य गृहे देवता अपि देवलकेन ढक्कां नादयित्वा साञ्जलिपुटं पूजयन्ति। क्षुद्ररक्षाबन्धनयन्त्रघुटिकादीन् शिशोः कण्ठे धारयन्ति। परमेश्वरात् नारायणाद्वा परं दैवं स्वप्नेऽप्यस्मरन्तोऽपि पुत्राद्यर्थं कुलटा स्त्रीव तत्र तत्र नानादेवता भजन्ते। मसूरिकादिदर्शने मातापित्रादयः सर्वे वृथा मनः क्लेशयन्तो मङ्गलस्नानादिकं वर्जयन्ति। मसूरिकाशान्त्यर्थं तद्देवतावाहनभूतं गर्दभमाराधयन्ति देवताबुद्ध्या।

इत्थं महता प्रयासेन शिशुसंरक्षणं कुर्वन्तौ मातापितरौ शिशोर्यौवनपर्यन्तं दुरन्तां चिन्तां वहतः। शैशवेऽत्यन्तं क्रीडासक्तान् बालांस्ततः प्रतिनिवर्त्य विद्यायां प्रवर्तने प्रतिदिनं महद्दुःखं जायते पित्रोः। पाठशालायां बालान्तरैः कलहायमानाः स्वयमन्यांस्ताडयन्तोऽन्यैस्ताड्यमानाश्च पुत्राः पित्रोर्दुःखहेतवो भवन्ति। प्राचीनसंस्कारवशाद्विद्याग्रहणापाटवे, ग्रहणपाटवे सत्यपि प्रवचनपटुताभावे, प्रवचनपटुतायामपि पुत्राणां द्यूतादिदुर्व्यापारासक्तावसह्यं दुःखं पित्रोः। ततो यौवनातिक्रमादर्वागेव पुत्राणां विवाहसम्पत्तिविषये चिन्ता। कुलशीलादिसम्पन्नवधूप्राप्तिविषयिणी महती चिन्ता। पुत्रादिविवाहार्थं धनाद्यर्जने महान् क्लेशः। इत्थं यौवनावधि मातापित्रोः पुत्रविषयिण्यनवधिका चिन्ता। दैवज्ञमुखात्पुत्रस्याल्पायुष्ट्वं श्रुत्वापमृत्युपरिहारायानेकोपायानाचरन्ति। भाग्यमान्द्याद्यदि सुतो म्रियते तदा मातापितरावुरसि शिरसि च ताडयन्तौ यावज्जीवं रुदितः। बालारिष्टादिभ्य उत्तीर्णः पुत्रो यदा कृतदारो भवति तदा दुः शिक्षितः पुत्रः स्वदारापत्यादीनेवात्यादरेण पोषयति, न तु महता क्लेशेन संरक्षितवन्तौ पितरौ। भार्यातद्बन्धुजनाधीनः पितरावधिक्षिपति च मर्मभेदिभिर्निन्दावचनैः। दुष्कृतफलभूतोऽसत्पुत्रः पित्रोपार्जितं प्रभूतं धनं सर्वोपकरणानि च बलादादय, पितरौ शरीरमात्रावशेषितौ गृहेऽवस्थाप्य स्वदारापत्यादिभिः सहान्यत्र गत्वा सुखं वसति। महता क्लेशेन संवर्धितवतोः पित्रोरन्नपानेऽपि न कल्पयति। प्रत्युत पित्रोरुपकुर्वन्तं दयालुं शपत्यपि। इत्थं पापिनं पुत्रं प्राप्य पितरौ दीर्घं निश्वसितः। इत्थं पुत्रवतानुभूयमानं महद्दुःखं नापुत्रस्यास्ति। एवं सर्वदुःखनिदानं जायापुत्रादिकं ज्ञात्वा विवेकिनो दारैषणायाः पुत्रैषणायाश्च व्युत्तिष्ठन्ति। महतः सुकृतस्य फलभूतः, पितरौ देवताबुद्ध्या समाराधयन् सत्पुत्रस्तु दुर्लभतरः।