ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्
- २३४-२३७ स्त्रीसङ्गजदुःखवर्णनम्


आवर्तः २३७ – स्त्रीसङ्गाद्बिन्दुनाशः

प्राणिभिः प्रतिदिनं भुज्यमानान्नपानादिरसपरिणामो बिन्दुः। स एव रेतः इति चरमधातुरिति चोच्यते। सर्वप्राणिनां स एव जीवनाधारः। विवेकी पुरुषो वृथा बिन्दुक्षयमकुर्वन् महते श्रेयसे कल्पते। सम्यक् संरक्षितो बिन्दुः प्राणिनामोजस्तेजो वीर्यं बलं चाधत्ते। येन बिन्दुः संरक्षितस्तस्य देहो रोगजराद्यनभिभूतः पुष्ट्या कान्त्या च विराजते। तस्येन्द्रियाणि पटुतराणि वशीकृतानि च भवन्ति। मनश्च शोकमोहाद्यनभिभूतं सदा प्रसन्नमेकाग्रमन्तर्मुखं च भवति। दीपस्तैलेनेव पुरुषो बिन्दुना ओजस्वी तेजस्वी बलिष्ठश्च विराजते। यो जितेन्द्रियः स्वप्नेऽप्यस्खलितबिन्दुः स बलारोग्यादिमान् प्रसन्नेन्द्रियमनाः शुभकर्माण्याचरन् क्रमेण लब्धात्मतत्त्वज्ञानः संसारभयाद्विमुच्यते। योगिनः सिद्धाश्च बिन्दुसंरक्षणबलेनैव *१ खेचरीमुद्राभ्यासादिनाणिमादिसिद्धिमूर्ध्वरेतस्त्वं श्रैष्ठ्यं चाभजन्त।

१. कपालकुहरे जिह्वा प्रविष्टा विपरीतगा।
वोरन्तर्गत दृष्टिर्मुद्रा भवति खेचरी॥

न पीड्यते स रोगेण न च लिप्येत कर्मणा।
बाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम्॥

चित्तं चरति खे यस्माज्जिह्वा चरति खे गता।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता॥

यावद्विन्दुः स्थिरो देहे तावन्मृत्युभयं कुतः।
यावद्वद्धा च सामुद्रा तावद्विन्दुर्न गच्छति॥ ( काशीखण्डे ४० अध्याये)

बिन्दुक्षय एव सर्वानर्थनिदानम्। योषित एव बिन्दुक्षयकारणम्। यथा गुडकाङ्क्षिणो मानवा इक्षुदण्डं निष्पीड्य तद्रसं गृहीत्वा निःसारमिक्षुदण्डं दूरे क्षिपन्ति तथैव रतिकाङ्क्षिण्यो महिलाः कामातुरं पुरुषं स्वभुजाभ्यां भृशमापीड्य तदङ्गनिःसृतं वीर्यं गृहीत्वा क्षीणवीर्यं तं दूरतः परित्यजन्ति। सर्वोत्तममिमं बिन्दु कामपरवशा मूढाः क्षणमात्रसुखलवलिप्सया मत्ताङ्गनासु विनियोज्य क्रमेण क्षीणबिन्दवः कतिपयैरेव दिवसैर्लुप्तदेहेन्द्रियमनोवीर्या दुर्बला नानारोगाभिभूता निस्तेजसो भवन्ति। निर्वीर्यः पुरुषो भृशं परिभूयते च स्त्रीभिः। तथापि कामान्धोऽयं पुनरपि रिरंसया तामेवानुधावति। सा तु तं तृणायापि न मन्यते। मदिरेक्षणाः कामिन्यः पण्डितमपि विवेकिनमपि धीरमपि पुरुषं क्षणेन स्वकटाक्षविशिखैः स्ववशतां नयन्ति। काममोहितः पुरषः प्रज्ञया विहीनः कार्याकार्यविवेकविकलः श्रेयोमार्गाच्यवते। सर्वस्त्रीषु सङ्गो धर्मादिसकलपुरुषार्थनाशनिदानमेव। यस्य तु जन्मान्तरीयसुकृतपरिपाकवशाद्विवेक उदेति स सामयक्षणिकसुखलवकारणीभूतख्त्र्यादिविषयविमुखः कान्ताकटाक्षविशिखानलदग्धमात्मानं गुरुकृपाकटाक्षामृतरसेनाप्यायति। गुर्वनुग्रहबलात्क्रमेणोत्पन्नात्मतत्त्वसाक्षात्कारो नित्यनिरतिशयाखण्डात्मानन्दमनुभवति, दुरन्तात्संसारदुःखान्निर्मुक्तश्च भवति।