ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्
- २३४-२३७ स्त्रीसङ्गजदुःखवर्णनम्


आवर्तः २३६ – स्त्रीसङ्गाद्धर्मनाशः

पञ्जरबद्धः शुको यथा विना विवेकं शुभाशुभानि वचनान्यनुवदति, तथैव कामी पुरुषो धर्माधर्मावजानन् कान्तोपदेशमनु मातापित्रादीन् गुरूनधिक्षिपति। यथा च बर्ही बर्हिण्याः पुरतो बहुधा केकालापपूर्वकं ताण्डवं कुर्वंस्तां तोषयति, तथैव कामातुरः कामिनीवचनमलङ्घयन् नानावेषधारणेन नटंस्तामाह्लादयति। कामी विवेकाद्धीयते। धर्माष्टो भवति च। मद्यपो यथा मद्यदुर्गन्धमविगणयन् भ्रान्तो वीथ्यां नष्टसंज्ञो भ्रमति, तथा कामान्धौ स्त्रीपुमांसौ विवसनौ अत्यन्तामङ्गलमशुचि मलिनं च देहमन्योन्यं गाढमालिङ्ग्य निर्लज्जौ लुठतः। काममदः संस्कृतमतीनामपि विवेकिनामपि बुद्धिं क्षणेन मलिनयति। अत एवाधीतशास्त्रा अपि कामपरवशाः स्त्रीपुरुषाः स्वकीयपरकीयत्वगम्यागम्यत्वादिव्यवस्थामन्तरा धर्माधर्मविवेकविकलाः परस्परं रमन्ते। एवं कामपरवशता पुरुषं वा स्त्रियं वा धर्माधर्मविवेकात् प्रच्याव्यानेकानर्थप्रदान्यशुभानि कर्माणि कारयति। एवं स्त्रीव्यक्तिः कामाभिवर्धनेन पुरुषबुद्धिमोहनद्वारा नानाविधदुष्कृताचरणद्वारा च नानादुःखनिदानमिति विचार्य विवेकिनो मुनयः स्यादिविषयेभ्यो विरक्ता एकान्ते रमन्ते।