-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्
- २३४-२३७ स्त्रीसङ्गजदुःखवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्
- २३४-२३७ स्त्रीसङ्गजदुःखवर्णनम्
आवर्तः २३५ – स्त्रीसङ्गाद्धननाशः
स्त्रियां कामपराधीनः पुरुषः तस्याः विषयसंसृष्टमधुवदापातमधुरमालापं श्रुत्वा व्यामुग्धचित्तः कामान्धः स्वप्नेऽपि तामेव स्मरन्निरुद्यमो न धनाद्यर्जनाय यतते। गृहे वा बहिर्वा यद्धनाभरणवस्त्रादिकं लभ्यते तत्सर्वं स्वेष्टदेवतायै भार्यायै समर्पयति भक्तिपूर्वकम्। सन्मार्गप्रदर्शकमातापितृगुर्वादीन् न मनसापि स्मरति। स्त्रीरूपः कर्षकः पुरुषरूपं लुलायं मोहमय्या नासारज्वा सुदृढं बद्ध्वाकृष्येतस्ततश्चालयति।