- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्
- २३२-२३९ स्त्रीसङ्गजदुःखवर्णनम्
आवर्तः २३४ – स्त्रीसङ्गो दुःखहेतुः
यस्य पूर्वपापवशात्कुरूपिणी दुर्भाषिणी च स्त्री प्राप्ता तस्य हृदयं सदा दुःखाक्रान्तमेवास्ते। निर्विण्णहृदयः स एवं मन्यते स्त्रीरूपमिदं पिण्डं मूत्रपुरीषाद्यनेकाशुचिपदार्थपरिपूर्णं भाण्डम्। भगवन्, कस्य वा मम पापस्य शिक्षणायेयं भवता मे दत्ता। महिषस्य महिष्यामिव, पिशाचस्य पिशाच्यामिव, उष्ट्रस्योष्ट्यामिव, गर्दभस्य गर्दभ्यामिव मनुष्यस्यापि तिर्यगादेरिव सर्वाशुचिनिधानायां स्त्रियां मोहो जायते। वैराग्यमन्तरा व्यभिचारादिदोषरहितायाः स्त्रियाः परित्यागे महान् दोषः। अस्या मम स्त्रियाः कुत्सितमिदं रूपं दुर्भाषणं च मम पूर्वकर्मानुसारेण प्राप्तम्। इत्येवमहर्निशं क्लेशमनुभवति कुरूपिणीपतिः।
यदि पुनर्भार्या रूपवती मधुरभाषिणी च दैववशाद्भवति तदा सा कुरुपिणीमपेक्ष्याप्यधिकदुःखहेतुर्भवति। काञ्चनप्रतिमावत्कान्ता भार्या तु प्रेम्णा पुरुषं निर्जित्य, तं कामैकपरायणम्, धर्माद्यनुष्ठानपराङ्मुखं च कृत्वा परमपुरुषार्थाभागिनमेव विदधाति।