ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
- २३२-२३९ भर्च्छोर्वैराग्यवर्णनम्


आवर्तः २३३ – एकान्तसेविनः सर्वभौमादिब्रह्मपर्यन्तानन्दलाभः

तथा हि, उदधिमेखलाया वसुधाया अधिपस्याप्रतिहतपराक्रमस्य नताखिलसामन्तस्य नवयौवनस्य सर्वविद्याविशारदस्यानुकूलसकलपरिवारस्य सार्वभौमस्यानन्दो मानुषानन्द इत्युच्यते। सोऽप्यानन्दः सातिशय एव। ततः शतगुणितानन्दो *१ मनुष्यगन्धर्वस्य। ततोऽपि शतगुणानन्दो *२ देवगन्धर्वस्य। ततोऽपि शतगुणानन्दः *३ पितॄणाम्। ततः शतगुणानन्द *४ आजानदेवस्य। ततः शतगुणानन्दः *५ कर्मदेवस्य। ततः शतगुणानन्दो *६ मुख्यदेवस्य। ततः शतगुणानन्द् इन्द्रस्य। ततः शतगुणानन्दो बृहस्पतेः। ततः शतगुणानन्दः प्रजापतेः। ततः शतगुणानन्दो हिरण्यगर्भस्य ब्रह्मणः। त्रिविधपरिच्छेदरहितस्य ब्रह्मणस्त्वानन्दो निरतिशयस्तारतम्यरहितः। न तत्र दुःखलेशोऽप्यस्ति। इत्थं प्राप्तव्यस्यानन्दस्य क्रमस्तैत्तिरीयोपनिषदि ब्रह्मवल्ल्यामष्टमानुवाके वर्णितः। सार्वभौमादिब्रह्मान्तमानन्दमेकान्तवासी अकामहतः श्रोत्रियोऽनवरतमुनभवति। अतः एकान्ते सुखमस्ति। दारापत्यधनासङ्गस्तु सदा दुःखप्रद एवेति भच्छुनिधारयामास।

*१. अस्मिन्नेव कल्पे मनुष्यो भूत्वा पुण्यविशेषाद्गन्धर्वत्वं यः प्राप्तः स मनुष्यगन्धर्वः।

*२. पूर्वकल्पानुष्ठितधर्माधिक्यादस्मिन् कल्पादावेव गन्धर्वत्वं यः प्राप्तः सः देवगन्धर्वः।

*३. पितृलोकेषु चिरकालं ये वसन्ति, अग्निष्वात्तादयस्ते पितरः।

*४. कल्पारम्भ एव ये देवत्वं प्राप्तास्ते आजानदेवाः।

*५. अस्मिन् कल्पे अश्वमेधादिक्रत्वनुष्ठानेन प्राप्तानन्तैश्वर्या आजानदेवैरुपास्यमाना ये ते कर्मदेवाः।

*६. यमाग्निवायुसूर्यचन्द्रादिप्रधानदेवा मुख्यदेवाः। केचित्तु यमादिहिरण्यग। र्भान्तदेवान्, अष्टौ वसून्, द्वादशादित्यान्, एकादश रुद्रानित्येवमेकत्रिंशद्देवांश्च मुख्यदेवान् आहुः।