ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः

- २३०-२४० भर्च्छोर्वैराग्यवर्णनम्

आवर्तः २३२ – पराधीना सेवा दुःखहेतुः। एकान्ते सुखम्

नानाविचित्ररसैः सूपाज्यशाल्यन्नशाकदधिघृतपायसापूपाद्यनेकप्रकारैरन्नपानादिभिरपि तृप्तिमनापन्नामिमां जिह्वामेतावन्तं कालं वृथा पोषितवानस्मि। इतः परं न तथेमां जिह्वां पुष्णीयाम्। क्षुधां शमयितुं किं न सन्ति वने विविधानि कन्दमूलशाकफलादीनि। पिपासोपशमनाय किं न सन्ति विमलजलाः सरितस्तडाकानि च। निवासाय हर्म्यतलादप्यतिशयिता वातातपवर्षाद्यनुपद्रुता गुहाः किं न सन्ति। प्रादेशमात्रोदरपूरणाय किमनया श्ववृत्त्या राजसेवया। ममेदानीमत्र वने पृथिवी शय्या, बाहू उपबर्हो, कन्दमूलादीन्याहारः, निर्मलोदकपानपात्रं चाञ्जलिरेव। तथा चोक्तं भागवते –

सत्यां क्षितौ किं कशिपोः प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम्।
सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः॥ भा. २.२.४॥

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन्।
रुद्धा गुहाः किमजिनोऽवति नोपसन्नान् कस्माद्भजन्ति कवयो धनदुर्मदान्धान्॥ ५॥ इति।

इत्थं भच्छुर्विचारयन् विषयभोगेषु नानादोषान् दृष्ट्वा एकान्तस्थितेरेव परमानन्दप्रदीपकत्वं निरचिनोत्। स्त्रीपुत्रधनादीनां दुःखनिदानत्वमेकान्तस्थितेः सुखहेतुत्वं च भर्छुर्यथा निश्चिकाय तथेदानीं वर्ण्यते।