ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २३०-२४० दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः


आवर्तः २३१ – भर्च्छोः सन्न्यासः

भर्छुरखिलमिमं ज्ञात्वैवमचिन्तयत्। ‘नेदानीं मम राजनिकटं गन्तुमुचितम्। योऽहमरोगेण दृढेण गात्रेणाविकलैरिन्द्रियैश्च सम्पन्नः सर्वभोगोपकरणभरितेषु रम्येषु हर्म्येषु निवसन् स्वलावण्यावधीरिताप्सरोभिः कामिनीभिरनवरतं रममाणो दिव्यान् भोगान् भुञ्जान एव कालमेतावन्तमनयम्। तस्य मे मरणान्ता विपदिदानीमापतिता। धिङ्मां मूर्खमियन्तं कालं भङ्गुरेषु भोगेषु निमग्नम्। मत्समः कोऽन्योऽस्ति मूढ इत्येकान्ते स्थित्वा याभिर्मोहित एतावन्तं कालं श्रेयोमार्गाद्दूरीकृतोऽभूत्तासामङ्गनानां प्रत्येकमङ्गानामत्यन्तमशोभनतामतिजुगुप्सावहताम्, दारापत्यधनादीनामनधिकदुःखनिदानतां च भूयो भूयोऽनुचिन्तयन् भोगाद्विरतस्तपस्वी सम्बभूव।