- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २२७-२४९ दृष्टान्तत्वेन राजामात्यभर्च्छुकथाप्रस्तावः
आवर्तः २३० – भर्च्छोः स्वाधिकाराद् भ्रंशः
हे सोम्य द्वैतवचनानुस्मरणं दृढतरप्राचीनाद्वैतानुभवसंस्कारजन्यामतिदृढामप्यद्वैतस्मृतिं प्रतिबध्नाति, तत्त्वसाक्षात्कारं दूरीकरोति चेत्युपपादयितुं काञ्चन कथां प्रस्तौमीति भछुकथां गुरुः शिष्यं प्रति कथयति –
आसीत्कस्यचिद्राज्ञो भछुर्नाम प्रधानामात्यः। स च स्वायत्तीकृतसकलराज्यकार्योऽभवत्। तस्य प्रभावं दृष्ट्वेतरे राजोपजीविनस्तस्मिन्नीर्ष्यालवः सञ्जाताः। तथापि राज्ञो निरतिशयप्रेमास्पदीभूताय भर्च्छवे नापकर्तुमशकन्। तदा ते सङ्घीभूय भच्छुनिरसनोपायमालोच्य रहसि तद्राष्ट्रस्थान् दस्यून् लुण्ठनाय प्रेरयामासुः। दस्युभिर्लुण्ठिते राष्ट्रे राजा राष्ट्रस्य सहसोपनतमुपप्लवं श्रुत्वा सभां सम्मेल्य तत्रस्थान् मुख्याधिकारिणो दस्युविद्रावणाय नियोजयामास। ते सर्वे सङ्घीभूय राजानमेवमवोचन् – ‘स्वामिन् सदा भच्छु भवान् श्लाघते, आपत्काले चास्मान् नियोजयति। किमित्यसौ भच्छुरिदानीं न नियुज्यते’ इति। श्रुत्वैतद्भच्छुः साञ्जली राजानमाह – ‘स्वामिन् यद्याज्ञाप्यते तर्ह्यस्मिन्नेव क्षणे गत्वा रिपून् जित्वागमिष्यामि इति। तर्हि तथैव क्रियतामिति राजा भर्च्छमाज्ञापयाञ्चकार। भच्छुरपि तत्क्षणमेव शत्रून् विद्राव्य राज्ये सस्यादिकं संरक्ष्य सर्वेषां क्षेममातनोत्। भच्छर्जयं श्रुत्वेतरे राजपुरुषाः युद्धे भर्च्छर्मृत इति राजानमावेदयामासुः। विवेकविकलो राजा तेषां व्यलीकवचनं विश्वस्य भच्छ्रुस्थाने तेष्वन्यतमं नियुज्य तस्मै शिबिकछत्रचामरादिबिरुदं च कल्पयामास। नूतनो मन्त्री यथा भच्छुर्न राष्ट्रमागच्छेत् यथा च राज्ञः स्वप्नेऽपि भच्छ्रुज्ञानं न स्यात्तथोपायशतैः संविधानमकरोत्।