ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २२७-२२९ शाङ्करमतस्याद्वैतस्य प्रमाणिकत्ववर्णनम्


आवर्तः २२९ – भेदवादतिरस्कारः

जैनादिमतवद्वेदबाह्यतया प्राचीनमहर्षिवचनविरोधाच्च भेदवादो न प्रमाणम्। आस्तिकविषये भेदवादखण्डनयुक्तीनां प्रदर्शनं नापेक्षितमिति कृत्वा स भेदवादः श्रुतिवचनविरुद्ध इत्येव प्रदर्श्यते कठोपनिषिदि भेदवासना भयहेतुः, सर्वदुःखनिदानम्, ततः सा वासना दूरीकर्तव्येति मृत्युना नचिकेताः उपदिष्टः। तस्माद्भदवासना सर्वात्मना मनसो निर्मूलमुन्मथनीया। सततमद्वैतनिष्ठाभ्यसनीया श्रेयोऽर्थिना। तथा हि श्रुतयः “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” (क. २.१.१, बृ. ४.४.१९) “द्वितीयाद्वै भयं भवति” (बृ. १.४.२) “अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्” (बृ. १.४.१०), “उदरमन्तरं कुरुते अथ तस्य भयं भवति” (तै. ब्र. ७) इति। तासां चायमर्थः इह परमात्मनि प्रत्यगभिन्ने त्रिविधपरिच्छेदत्रिविधभेदशून्ये नानेव (इवशब्दादविद्यमानमेव भेदम्) पश्यति स मृत्वा मृत्वा पुनः पुनर्जायते। द्वैताभिनिविष्टस्य सदा भयमेव। चिन्मात्रस्वस्वरूपात्पृथक् ज्ञेयत्वेन ध्येयत्वेन वा वस्त्वन्तरमस्तीति मन्वानः पशुप्रायः। अणुमात्रमपि भेदं पश्यतो महद्भयं भवति। दुःखनिदानभूतो भेदवादः श्रेयोऽर्थिना सर्वथा विस्मर्तव्यः। द्वैतवचनं यावदनुस्मर्यते तावदद्वैतसाक्षात्कारो नोदियात् इत्यदृष्टिनामकं शिष्यं गुरुरुपदिदेश।