ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्
- २२७-२२९ शाङ्करमतस्याद्वैतस्य प्रमाणिकत्ववर्णनम्


आवर्तः २२८ – अद्वैतमेव प्रामाणिकमिति वाल्मीकेप्यभिप्रायः

श्रीवाल्मीकिरादिकविराडखिलार्थदर्शी महर्षिरुत्तररामायणे वासिष्ठाख्यग्रन्थे सर्वोपनिषत्सूत्रभूतमाण्डूक्यार्थाविष्करणप्रधाने श्रीरामवसिष्ठसंवादरूपेणाभिव्यक्तवार्तिकात्मके उपक्रमादिषड्विधतात्पर्यलिङ्गैर्दृष्टान्तसहस्रैरितिहासशतैश्चाद्वैतमेव प्रमाणमिति निरूपयति। तत्राप्यद्वैतमतसारभूतदृष्टिसृष्टिवादैकजीववादैकसत्तावादान् एव पुनः पुनरत्यादरेणानेकेतिहासैः सम्यक् प्रतिपादयति च। इत्थं व्यासवाल्मीक्याद्यभिप्रायेणोपनिषद्भगवद्गीताब्रह्मसूत्रात्मकप्रस्थानत्रयस्य श्रीमच्छङ्करभगवत्पादप्रणीतभाष्यमेव यथार्थव्याख्यानमिति सिद्ध्यति। इत्थं सर्वज्ञव्यासवाल्मीक्यादिवचनविरोधाद्भेदवादोऽप्रामाणिकः । भेदवादो युक्तिविरुद्ध इति च श्रीहर्षमिश्रः खण्डनग्रन्थे निरूपितम्। भेदधिक्कारादिग्रन्थेष्वपि भेदवादस्यायुक्तत्वं प्रदर्शितम्।

*१. यत्सङ्कोचविकासाभ्यां जगत्प्रलयसृष्टयः।
निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः॥

प्रातीतिकत्वं वेदान्तसिद्धान्ते जगतः स्फुटम्।
अतः सुप्तौ जगल्लीनं प्रबोधे जायते पुनः॥

दृष्टिसृष्टिमिमां ब्रह्मानुभवी बहुमन्यते।
बद्धो मुक्तो महाविद्वान् अज्ञ इत्यादिभेदतः॥

एक एव सदा भाति नानेव स्वप्नवत्स्वयम्।
अतः स्वमुक्त्यैवान्येषामाभासानामपि ध्रुवम्॥

मुक्तिं जानाति हे देवा आत्मना ह्यात्मविद्वरः।
स्वसंसारदशायां तु स्वभ्रान्त्या सर्वदेहिनाम्॥

आभासानां च संसारं वेद मुक्तिं तथैव च।
तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा॥

ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः। इति।

इत्थमनादिसिद्धश्रुतितात्पर्यविषयीभूतत्वात्स्मृतिपुराणेतिहासैरुपबृंहितत्वातन्नारायणादिसद्गुरुसंप्रदायगतत्वाच्च शाङ्करमद्वैतमतमेव साधु। सर्वैः श्रेयोऽर्थिभिरादरणीयञ्च।