- २२६-३१६ श्रीसद्गुरोरुत्तरम्
- २२६-३१६ शाङ्करमतस्याद्वैतस्य प्रमाणिकत्ववर्णनम्
आवर्तः २२७ – शाङ्करमतस्य प्रामाणिकत्वे व्यासवचनम्
श्रीव्यासेन वायवीयकूर्मादिपुराणेषु शाङ्करमतमधिकृत्यैवमुच्यते –
कलौ युगे तु वेदार्थो वर्ण्यते ह्यन्यथान्यथा।
शङ्कराचार्यरूपेण शिवः साक्षात्तदा किल॥
अवतीर्यान्यथाभूतं जैनबौद्धादिकं मतम्।
निर्मूलयिष्यत्यखिलं वेदवाक्यैः सयुक्तिभिः॥
उद्धृत्य मूर्तिं (लिङ्गं) गङ्गायाः स्थापयिष्यति वै प्रभोः।
सूर्यालोकेन जगतो ह्यन्धकारविनाशने॥
यथावस्थितभानं तु पदार्थानां यथा भवेत्।
नाशश्च विपरीताख्यभावनाया यथा भवेत्॥
सर्वसंशयनाशश्च भगवत्पूज्यपादभृत्।
शङ्करोऽपि तथैवेह लोकानुग्रहकाङ्क्षया॥
वेदार्थविषयाज्ञानं भ्रान्तिसंशयकारणम्।
निःशेषं नाशयित्वासौ साधयित्वाद्वयं परम्॥
अद्वयब्रह्मविद्यां च स्थापयेदवनीतले।
अन्यथा वर्णयेद्यस्तु वेदार्थं स तु मूढधीः॥ इति।
महेतिहासे शिवरहस्ये नवमांशे च शाङ्करमतस्यौपनिषदत्वमुच्यते –
शिवे मदंशसम्भूतः शङ्करः शङ्करोत्तमः।
चतुर्भिः सह शिष्यैश्च कलाववतरिष्यति॥
तस्मै चोपनिषद्विद्या मया दत्ता महेश्वरि।
भूमौ पाषण्डषण्डानां खण्डनं स करिष्यति॥ इत्यादिना।
इतिहासपुराणानां च वेदार्थोपबृंहण एव उपयोग इत्यभियुक्तवचनमपि –
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ इति।