- पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
आवर्तः २२६ – वेदेन गुरुणा चाद्वैतज्ञानोदयासंभव इत्यदृष्टेः प्रश्नः
श्रीसद्गुरुमुखादुपदिष्टवेदान्तवाक्यप्रमाणादद्वैतब्रह्मात्मसाक्षात्कारो जायत इति पूर्वतरङ्गे उक्तम्। तच्छ्रुत्वा अदृष्टिनामकद्वितीयशिष्य एवं शङ्कते किं गुरुर्वेदान्ताश्च सत्या उतासत्याः। आद्यपक्षे अद्वैतहानिर्द्वैतसिद्धिश्च। द्वितीये मिथ्याभूतमरीचिकोदकेन पिपासानपगमवदसत्यभूतगुरुवेदान्तैः संसारदुःखानिवृत्तिः पुरुषार्थासिद्धिश्च। एवं पक्षद्वयेऽप्यद्वैतज्ञानोदयासंभव एवेति शङ्कराचार्यस्थापितमद्वैतमतमप्रामाणिकमेवेति मम शङ्कां कृपयापनेतुमर्हसीति शिष्यः पृच्छति।