ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- २२४-२२५ पूर्वोक्तप्रश्नस्योत्तरम्


आवर्तः २२५ – ब्रह्मज्ञानस्य प्रत्यक्षत्वोपपत्तिः तत्त्वदृष्टेर्भेदभ्रमनिवृत्तिश्च

बाह्यघटादिभिः सहान्तःकरणवृत्तेः संबन्धो नेत्रादीन्द्रियद्वारा जायत इति घटादयो न साक्षिभास्याः। अन्तःकरणवृत्तिर्यदा *१ ब्रह्माकारा भवति तदा सा वृत्तिर्न बहिर्गच्छति, किन्तु शरीरस्यान्तरेव वर्तते। तया वृत्त्या सह ब्रह्मणः संबन्धोऽस्ति। तस्माद्ब्रह्मज्ञानमपि सुखदुःखादिज्ञानमिव प्रत्यक्षरूपं भवति। परन्तु सुखाकारदुःखाकारवृत्तिषु बाह्यसाधनापेक्षा नास्ति। तस्मात् सुखदुःखादयः साक्षिभास्याः। ब्रह्माकारान्तः करणवृत्तौ तु गुरुमुखाच्छ्रुतवेदान्तवाक्यस्य श्रोत्रेन्द्रियसंबन्धरूपबाह्यसाधनमपेक्ष्यतेे। तस्माद्ब्रह्म न *२ साक्षिभास्यम्। इत्थं यत्र विषयेण सह वृत्तिः सम्बद्धा भवति तत्र प्रत्यक्षज्ञानं भवति। ‘अहं ब्रह्मास्मि’ इति वृत्तेः विषयेण ब्रह्मणा सह सम्बद्धत्वात् ब्रह्मज्ञानं प्रत्यक्षं भवितुमर्हति।

*१. “चक्षोः सूर्योऽजायत”, “आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् “ (ऐ. १.२) इत्यादिप्रमाणेन चक्षुषि सूर्याभेदोऽस्ति। अङ्गुल्यादिरूपाल्पावरणेन सूर्यतिरोधाने ब्रह्माण्डान्तर्वर्तिसूर्यस्य प्रकाशो न दृश्यते। आवरणनिवृत्तौ तु चक्षुर्गतान्तःकरणवृत्त्या । ब्रह्माण्डान्तर्वर्तिसूर्यस्य प्रकाशो दृश्यते। एवमेव साक्षिरूपे आत्मनि ब्रह्मणोऽभेदोऽस्ति। । तस्यान्तःकरणगताज्ञानांशरूपस्वल्पावरणेनाच्छादने सर्वत्र परिपूर्णं ब्रह्म न प्रत्यक्षतया भासते। यदा शरीरान्तर्जायमानब्रह्मात्माभेदाकारवृत्त्या पूर्वोक्तावरणस्य भङ्गो जायते, तदा गृहान्तर्गतस्याकाशस्यासङ्गत्वादिज्ञानेन महाकाशस्यासङ्गत्वादिज्ञानोदयवत् सर्वत्र परिपूर्णब्रह्मणः स्वप्रकाशत्वरूपेण भानं भवति।

*२. यथा ब्रह्म न साक्षिभास्यं तथा चिदाभाससहितान्तःकरणवृत्तिरूपप्रमातुरप्यगोचरं भवति। दीपान्तरापेक्षां विना केवलनेत्रस्य यथा दीपो विषयो भवति, तथा ब्रह्म केवलायाः ‘अहं ब्रह्मास्मि’ इति ब्रह्माकारान्तः करणवृत्तेर्विषयतां प्रतिपद्यते। तस्माद्ब्रह्म न प्रमातृभास्यमपि। किन्तु स्वप्रकाशं प्रत्यन्यप्रकाशापेक्षारहितसर्वावभासकस्वयंप्रकाशस्वरूपं ब्रह्म। ‘मलेन मलं हन्यात्’ इति न्यायेन वृत्तिर्ब्रह्मणः आवरणभङ्गं करोति। सोऽयं वृत्तिप्रयुक्तावरणभङ्ग एव वृत्त्या ब्रह्मणो विषयीकरणमित्युच्यते। न प्रकारान्तरेण वृत्त्या ब्रह्मणो विषयीकरणं संभवति। साक्षी बाह्यसाधनापेक्षां विनैव ‘अहं ब्रह्मास्मि’ इति वृत्तिरूपं तत्त्वज्ञानं प्रकाशयति। अत एव तत्त्वज्ञानं साक्षिभास्यम् इत्यभिधीयते।

यत्र धूमदर्शनेन वह्निज्ञानं जायते तत्र धूमज्ञानं प्रत्यक्षम्, वह्निज्ञानं तु न प्रत्यक्षम्। चक्षुर्द्वारा निर्गतान्तः करणवृत्तेर्धूमेन सह संबन्धोऽस्ति; अतो धूमज्ञानं प्रत्यक्षम् इत्युच्यते। लिङ्गज्ञानरूपानुमानप्रमाणजन्यान्तःकरणवृत्तिः शरीरस्यान्तरेव वह्न्याकारं भजते। न हि वृत्तेर्वह्निना सह संबन्धोऽस्ति; तस्माद्वह्निज्ञानं न प्रत्यक्षम्।

इत्थं यत्र वृत्त्या सह विषयस्य संबन्धो भवति तत्र प्रत्यक्षज्ञानं भवति। यत्र वृत्त्या सह विषयस्य संबन्धो न भवति तत्र परोक्षज्ञानं भवति। यत्र विषयो देशान्तरस्थो नष्टो भावी वा, तत्रानुमानेन शब्देन वा विषयाकारा वृत्तिः शरीरस्यान्तरेव भवति, तदोत्पद्यमानं ज्ञानं परोक्षम् इत्युच्यते।

इन्द्रियजन्यज्ञानमेव प्रत्यक्षमिति न नियमः। सुखदुःखादिज्ञानमिन्द्रियजन्यमपि प्रत्यक्षमेव भवति। दशमपुरुषज्ञानं शब्दजन्यमपि प्रत्यक्षमेव भवति। अनेन न्यायेन श्रीसद्गुरुमुखाच्छ्रुतमहावाक्यरूपवेदशब्दजन्यब्रह्मज्ञानमपि प्रत्यक्षमेव भवति।

श्रीसद्गुरोरेवंविधमुपदेशं श्रुत्वा बुद्धिमानुत्तमाधिकारी *१ तत्त्वदृष्टिः स्वात्मानं ब्रह्मरूपेण विदित्वा भेदभ्रमं विजहौ। ‘अहं ब्रह्मास्मि’ इति वृत्तौ निरावरणं ब्रह्म भाति। तत्त्वदृष्टिरेवमुवाच।

निरावरणनिर्भासमहं ब्रह्मेति बुद्धवान्।
श्रीसद्गुरोः प्रसादेन ह्यखण्डाकारवृत्तितः॥

*१. यस्यान्तःकरणं पूर्वपुण्यपरिपाकवशादत्यन्तं शुद्धमस्ति, यस्य गुरूपदिष्टमहावाक्यरूपशब्दप्रमाणेन सदृढो बोधो जातः, यस्य च तादृशसुदृढबोधोदयानन्तरं संशयादिनिवृत्तये श्रवणादिसाधनान्तरं नापेक्षितं स एवोत्तमाधिकारी। यस्य त्वन्तःकरणं नात्यन्तं शुद्धं किन्त्वीषन्मलविक्षेपादिदोषयुक्तम् स मध्यमाधिकारी; अथवा कनिष्ठाधिकारी। महावाक्यरूपशब्दादपरोक्षज्ञानोदयानन्तरमपि संशयादिनिवृत्तये तेन श्रवणादिकमनुष्ठेयम्।

॥इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे उत्तमाधिकारिण उपदेशनिरूपणं नाम चतुर्थस्तरङ्गः॥