ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि

- १६९-२२५ पूर्वोक्तप्रश्नस्योत्तरम्

आवर्तः २२४ – सुखदुःखादेः साक्षिभास्यत्वादिन्द्रियसंबन्धं विना प्रत्यक्षं न जायते इति नियमो नास्ति

इन्द्रियसंबन्धं विना प्रत्यक्षज्ञानं नोदेतीति नियमो नास्ति। सुखदुःखादेर्ज्ञानं न केनापीन्द्रियेण जन्यते, तथापि सुखदुःखादेर्ज्ञानं प्रत्यक्षमेव। तस्मादिन्द्रियसंबन्धजन्यं ज्ञानमेव प्रत्यक्षज्ञानमिति न नियमः। किन्तु यदा विषयेण वृत्तिः सम्बद्धा विषयाकारा भवति तदा *१ प्रत्यक्षज्ञानं जायत इत्युच्यते। विषयेण सह वृत्तेः संबन्धः क्वचिदिन्द्रियद्वारा भवति क्वचिच्च शब्देन भवति। ‘दशमस्त्वमसि’ इत्यत्र शब्दाज्जायमानान्तः करणवृत्तिर्दशमेन स्वात्मना सम्बद्धा दशमाकारा भवति। तस्माच्छब्दजन्यदशमज्ञानमपि *२ प्रत्यक्षमेव।

*१. विषयावच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्येनाभेद एव प्रत्यक्षज्ञानलक्षणम्। स चाभेदः क्वचिदिन्द्रियद्वारा भवति। क्वचिच्छब्देन भवति क्वचिदिन्द्रियादिरूपबाह्यनिमित्तं विनैव शरीरान्तर्जायमानवृत्तिद्वारा भवति। तत्रापि प्रत्यक्षज्ञानमिति व्यपदेशो भवति।

चैतन्यस्य स्वरूपतो न कोऽपि भेदोऽस्ति। किन्तु विषयवृत्तिरूपो भयोपाधिप्रयुक्तभेदोऽस्ति। तयोरुपाध्योर्भिन्नदेशस्थत्वे तादृशोपाधिविशिष्टचैतन्ययोर्भेदव्यवहारो भवति। वृत्तेर्विषयाकारताकाले द्वयोरुपाध्योरेकदेशस्थत्वं भवति। तदैकदेशस्थोपाधिसहित - विषयचैतन्यवृत्तिचैतन्ययोरभेदो व्यवह्रियते। एवं विषयचैतन्येन सह वृत्तिचैतन्यस्य जायमानाभेद एव प्रत्यक्षज्ञानम् इति, अपरोक्षज्ञानम् इति, साक्षात्कार इति चोच्यते।

तदिदं प्रत्यक्षज्ञानलक्षणम् (१) इन्द्रियजन्यबाह्यघटादिप्रत्यक्षज्ञाने, (२) महावाक्यजन्यब्रह्मप्रत्यक्षज्ञाने, (३) प्रत्यक्षज्ञाने, (४) मायावृत्तिरूपेश्वरज्ञाने, (५) अविद्यावृत्तिरूपरज्जुसर्पादिज्ञाने चानुगतम्।

*२. ‘अहं दशमः’ इति दशमस्य स्वस्वरूपापरोक्षज्ञानं ‘दशमस्त्वमसि’ इति शब्दप्रमाणजन्यम्। नेन्द्रियैर्मनसा वा दशमप्रत्यक्षज्ञानं जायते। तथा हि, यदि शरीररूपो दशम इन्द्रियवेद्य इत्युच्यते तर्हि नेत्रेन्द्रियमात्रेण वेद्येत। तथा सति निमीलितनयस्यापि ‘दशमस्त्वमसि’ इति वाक्याद्दशमज्ञानं जायमानमसङ्गतं भवेत्। तस्माद्दशमज्ञानं नेत्रेण न जायते। मनस्तु न साक्षाद्वाह्यार्थग्रहणसमर्थम्। आन्तरमेव पदार्थ मनः साक्षात् गृह्णीयात्। देवदत्तयज्ञदत्तादिसंज्ञा अपि सूक्ष्मदेहसहितस्थूलदेहे दृश्यन्ते। ‘त्वम्’, ‘अहम्’ इत्यादिव्यवहारोऽपि स्थूलदेहे दृश्यते। स्थूलदेहस्य ज्ञानं मनसा साक्षान्न संभवति। तस्माद्दशमज्ञानं शब्दप्रमाणेनैव जायते। तत्र नेत्रं मनश्च सहायतां प्रतिपद्येते।

??? बाह्यनिमित्तं विनान्तरेवोत्पद्यमानसुखदुःखादि

तथैव प्रमातरि सुखदुःखाद्युत्पत्तिकालेऽन्तःकरणस्य वृत्तिः सुखाकारा दुःखाकारा च भवति। तया वृत्त्या सह सुखदुःखादेः संबन्धो जायते। तस्मात् सुखदुःखादेर्ज्ञानं प्रत्यक्षम् इत्युच्यते। पूर्वोक्तोत्पन्नसुखदुःखादेर्नाशानन्तरं यदा पुरुषस्य तादृशसुखदुःखादिज्ञानं जायते तदा सुखदुःखाद्याकारा अन्तःकरणवृत्तिरुदेति। किन्तु तस्या वृत्तेर्नष्टसुखदुःखादिना संबन्धो नास्ति। अतस्तज्ज्ञानं स्मृतिरूपम्, न प्रत्यक्षरूपम्।

यद्यप्यन्तःकरणधर्माः *३ सुखदुःखादयः साक्षिभास्यास्तथापि सुखाकारदुःखाकारान्तःकरणवृत्तिद्वारैव साक्षी सुखदुःखादीन् प्रकाशयति। साक्षिभास्यपदार्थमपि साक्षी वृत्तिमपेक्ष्यैव प्रकाशयति। तथा हि शुक्तिरजतं साक्षिभास्यमेव। तत्रापि साक्षी अविद्यावृत्तिम् अपेक्ष्यैव रजतं प्रकाशयति। परन्तु सुखदुःखादिप्रकाशने अन्तःकरणवृत्तिः साक्षिणः सहायभूता। मिथ्यारजतादिप्रकाशने अविद्यावृत्तिः साक्षिणः सहायभूता। इत्थं साक्षिभास्यपदार्थज्ञानेऽपि वृत्तिरावश्यिकी। सा वृत्तिर्यत्रेन्द्रियादिबाह्यसाधनाजन्या तत्र तस्या वृत्तेर्विषयः साक्षिभास्य इत्युच्यते। सुखदुःखादिविषयकवृत्तौ बाह्येन्द्रियादिकं न कारणम्। अपि तु सुखाद्युत्पत्तिसमये साधनान्तरापेक्षां विनैव सुखाकारा दुःखाकारा चान्तःकरणवृत्तिर्जायते। तस्यां वृत्तावारूढः साक्षी सुखदुःखादीन् प्रकाशयति। अतः सुखदुःखादिकं साक्षिभास्यम् इत्युच्यते।

*३. सुखदुःखादयो बुद्धेरेव धर्माः, नात्मनः। अत एव ते बुद्धेः सत्त्वे जाग्रत्स्वप्रयोरेव प्रतीयन्ते। सुषुप्ते बुद्धेरभावात्सुखदुःखादिप्रतीतिर्नास्ति। तथा चोक्तम् –

रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते।
सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः॥ इति