ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- २१९-२२३ इन्द्रियसंबन्धं विना “अहं ब्रह्म” इति ज्ञानस्य कथं प्रत्यक्षतेति तत्त्वदृष्टिप्रश्नः


आवर्तः २२३ – ब्रह्म कर्मेन्द्रियाणामप्यविषयः

कर्मेन्द्रियं न ज्ञानसाधनम्, किन्तु वचनादिक्रियासाधनम्। तस्मात्कर्मेन्द्रियैर्न कस्यचिदपि ज्ञानं जायते। इत्थं न केनापीन्द्रियेण ब्रह्मणो ज्ञानं जायते। इन्द्रियजन्यमेव ज्ञानं प्रत्यक्षम् इत्युच्यते। तदेवापरोक्षम् इति च कीर्त्यते। तस्माद्ब्रह्मणोऽपरोक्षज्ञानं नैव संभवति। शब्देन तु यद्यपि ब्रह्मज्ञानमुत्पद्यते तथापि शाब्दज्ञानस्य परोक्षत्वाच्छब्दजन्यब्रह्मज्ञानं परोक्षम् एव भवेत्।