-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- २१९-२२३ इन्द्रियसंबन्धं विना “अहं ब्रह्म” इति ज्ञानस्य कथं प्रत्यक्षतेति तत्त्वदृष्टिप्रश्नः
- २२०-२२२ ब्रह्म न ज्ञानेन्द्रियाणां विषयः
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- २१९-२२३ इन्द्रियसंबन्धं विना “अहं ब्रह्म” इति ज्ञानस्य कथं प्रत्यक्षतेति तत्त्वदृष्टिप्रश्नः
- २२०-२२२ ब्रह्म न ज्ञानेन्द्रियाणां विषयः
आवर्तः २२२ – ब्रह्म न रसनाघ्राणश्रोत्राणां विषयः
रसनेन्द्रियेण रसज्ञानम्, घ्राणेन्द्रियेण गन्धज्ञानम्, श्रोत्रेन्द्रियेण शब्दज्ञानं च जायते। रसगन्धशब्देभ्यो विलक्षणं ब्रह्म। तस्मान्न रसनाघ्राणश्रोत्रैर्ब्रह्मणो ज्ञानं जायते। “अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्” (क. १.३.१५) “पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्घश्यति नान्तरात्मन् “ (क. २.१.१) इत्यादिना ब्रह्मण इन्द्रियाविषयत्वं बोध्यते।