ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २२७-२४९ श्रीसद्गुरोरुत्तरम्


आवर्तः २४७ – प्रातिभासिकसत्ता

ब्रह्मज्ञानेतरबाध्यत्वं प्रातिभासिकत्वम्। तादृशं सत्त्वं यत्रास्ते स प्रातिभासिकपदार्थ इत्युच्यते। ब्रह्मज्ञानं विनैव रज्जुशुक्तिकोषरादिज्ञानेन यथाक्रमं सर्परजतोदकानां बाधदर्शनात्तेषां प्रातिभासिकं सत्त्वम् अस्ति। प्रातिभासिकः = प्रतीतिकालमात्रसत्ताकः। सत्ता = स्वरूपम् = स्थितिः। प्रतीतिकालमात्रभाविनः पदार्थस्य प्रातिभासिकसत्तोच्यते। *१ तूलाविद्याकार्यशुक्तिरजतादेः प्रतीतिकालमात्रभावित्वात् तेषां प्रातिभासिकसत्ता युज्यते।

१. घटादिनिखिलानात्मजडपदार्थोपहितचैतन्यावारिकाविद्या तूलाविद्या इतत्युच्यते। इयमेव अवस्थाज्ञानं इति, सादिमलिनाविद्येति च कथ्। सा च तूलाविद्या अंशभेदेन नाना भूत्वा भिन्नभिन्नपदार्थावारिका भवति। यदा यत्पदार्थाकारान्तः करणवृत्तिरुदेति तदा तत्पदार्थावारकतूलाविद्यांशो नश्यति। यदा त्वन्तःकरणवृत्तिः पदार्थान्तरमनुधावति तदा पुनरपि पूर्वपदार्थावारकः तूलाविद्याया अन्योंऽश उत्पद्यते। एतादृशतूलाविद्यांशनाशाय न ब्रह्मज्ञानापेक्षा। तस्य तूलाविद्यांशस्य प्रातिभासिकसत्ताकत्वात् घटादितत्तत्पदार्थज्ञानेनैव नाशः संभवति।

पञ्चपादिकाकृतस्त्वेवमाहुः – मूलाविद्यैव तूलाविद्या, न ततोऽतिरिक्तेति। तन्मते यथा जनसमुदायमध्येऽशनिपाते सति तदा तत्रस्था जनास्ततोऽपसरन्ति, पश्चात्तत्र पुनरपि जनाः सम्मिलन्ति, तथा यदा यत्पदार्थाकारा अन्तःकरणवृत्तिरुदेति तदा तत्पदार्थाकारा अविद्या ततस्तिरोभवति। यदा त्वन्तः करणवृत्तिः पदार्थान्तराकारा भवति, तदा पुनरपि साविद्या पूर्वपदार्थे प्रसृता तमावृणोति। परन्तु ब्रह्मज्ञानं विना न तस्या अविद्याया नाशो भवति। एवमेव स्वाप्नपदार्थानां प्रातिभासिकरज्जुसर्पादेश्चाविद्यानाशमन्तरेणैव विरोधि। पदार्थान्तरज्ञानेन वा अविद्यायास्तिरोधानेन वा अविद्यायां लयरूपो नाशो वा तिरोधानं वा भवति। अत्र प्रसङ्गात्तूलाविद्यावर्णनं कृतम्।