ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्


आवर्तः २१८ – प्रमात्रादिचतुर्विधचैतन्यस्वरूपम्

यथान्तःकरणमाभाससहितमेवास्ते तथा तद्वृत्तिरप्याभाससहितैव जायते। आभाससहितवृत्तिविशिष्टचैतन्यं प्रमाणचैतन्यम् इत्युच्यते।

घटादिविषयाकारान्तःकरणवृत्त्यारूढं चैतन्यं प्रमेति, यथार्थज्ञानम् इति वोच्यते। प्रमायाः साधनमिन्द्रियं प्रमाणम् इति कथ्यते। अत्रेदं ज्ञेयम् विषयाकारवृत्त्यारूढचैतन्यं प्रमेति कीर्त्यते। तत्र चैतन्यस्य स्वरूपतो नित्यत्वान्नेन्द्रियजन्यत्वसंभवः। अतश्च प्रमाचैतन्यं प्रतीन्द्रियस्य यद्यपि साधनत्वं न युज्यत एव तथाप्युपचारेणेन्द्रियस्य प्रमासाधनत्वव्यवहारः। तथा हि उपाधिशून्यचैतन्ये प्रमाव्यवहाराभावात् विषयाकारवृत्त्युपहितचैतन्ये तद्व्यवहाराच्च, चैतन्ये प्रमाशब्दप्रवृत्तौ विषयाकारवृत्तेरुपाधित्वात्तस्या वृत्तेरिन्द्रियजन्यत्वात्तादृशवृत्त्युपहितप्रमां प्रत्यपीन्द्रियस्य साधनत्वव्यवहारः। इत्थमेव इन्द्रियं प्रमासाधनम् इति व्यवहियते। न ह्यन्तःकरणपरिणामाः सर्वेऽपि प्रमात्वेन व्यवह्रियन्ते। किन्तु शरीरान्तःस्थमन्तःकरणं विषयरूपघटादिदेशपर्यन्तं दीर्घीभावापत्तिरूपं परिणामं प्राप्नोति, स परिणाम एव प्रमाणम् इत्युच्यते। एव

विषयैः सह मिलितस्यान्तःकरणस्य विषयसमानाकारो यः परिणामस्तस्य प्रमेति व्यपदेशः। शरीरान्तः स्थितान्तःकरणदेशमारभ्य घटादिविषयदेशपर्यन्तं दीर्घीभूतस्यान्तःकरणस्य परिणामः प्रमारूपतां धत्ते। तस्मात्प्रमायाः प्रमाणरूपान्तःकरणवृत्तेश्च नाधिको भेदोऽस्ति। अनेन क्रमेण बाह्यपदार्थानां प्रत्यक्षज्ञानोत्पत्तिदशायामन्तःकरणवृत्तिर्बहिर्निर्गत्य विषयीभूतघटादिसमानाकारतां धत्ते। शरीरान्तः स्थात्मनः प्रत्यक्षकाले त्वन्तःकरणवृत्तिर्बहिर्निर्गमनं विना शरीरस्यान्तरेवात्माकारतां धत्ते। तया आत्माकारया वृत्त्या आत्माश्रितमावरणं निवर्त्यते। आत्मा स्वस्य प्रकाशेन वृत्तौ प्रकाशते। अनेनैव निमित्तेनात्मा वृत्तेर्विषय इत्युच्यते। वृत्तिस्थचिदाभासरूपफलस्य त्वात्मा न विषयो भवति। वर्णितेन प्रकारेण साक्षिरूप आत्मा स्वयंप्रकाशरूपो भातीति सिच्यति।