ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २१४-२१७ प्रमातृलक्षणम्


आवर्तः २१७ – अन्तःकरणगतद्विविधप्रकाश एव प्रमाता, नान्यः

इत्थमन्तःकरणे द्विविधः प्रकाशोऽस्ति; एको व्यापकचैतन्यस्य प्रकाशः, अपर आभासरूपचैतन्यस्य प्रकाशः। शरीरे घटादिषु च व्यापकचैतन्यस्य प्रकाश एक एवास्ति, द्वितीय आभासस्य प्रकाशो नास्ति। तस्माद्द्विविधप्रकाशसहितान्तःकरणविशिष्टचैतन्यमेव प्रमाता इत्युच्यते, न त्वेकप्रकाशमात्रसहितघटादिविशिष्टचैतन्यं प्रमाता।

येषां मतेऽन्तःकरणे आभासो नास्ति तेषां मते घटादाविवान्तःकरणेऽपि द्वितीय आभासस्य प्रकाशो नास्ति। अपि च य एको व्यापकचैतन्यस्य प्रकाशोऽन्तःकरणेऽस्ति स एव घटादावप्यस्ति। तस्मादन्तःकरणविशिष्टचैतन्यस्य प्रमातृत्वाङ्गीकारे, घटविशिष्टस्य शरीरविशिष्टस्य कुड्यविशिष्टस्य च चैतन्यस्य प्रमातृत्वं स्वीकर्तव्यं भवेत्। इत्थं घटशरीराद्यपेक्षयान्तःकरणे ईदृशं वैलक्षण्यमस्ति। अत्र चायं हेतुः सत्त्वगुणकार्यत्वादन्तःकरणं स्वच्छम्; अत एव तच्चैतन्याभासग्रहणयोग्यं च। इतरपदार्थास्तु तमोगुणकार्यत्वादस्वच्छाः, अत एव ते चैतन्याभासग्रहणायोग्याश्च। आभासग्रहणयोग्यान्तःकरणविशिष्टचैतन्यमेव प्रमातेत्यभिधीयते; न त्वाभासग्रहणायोग्यघटादिविशिष्टचैतन्यं प्रमाता भवति। अत एवाभासवादः श्*१ रेयान्, न त्ववच्छेदवादः।

*१. आभासवादे आभासस्य स्वरूपमधिकतया कल्पनीयं भवति। अवच्छेदवादे तु न इत्थं यद्यप्याभासवादे गौरवम् अवच्छेदवादे लाघवं च, तथापि मन्दजिज्ञासोर्बुद्धावाभासवादः स्फुटमारूढो भवेदित्यनेनाभिप्रायेणाभासवादः स्तूयते। भाष्यकारादीनामप्ययमेवाशयः।