- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २१४-२१७ प्रमातृलक्षणम्
आवर्तः २१६ – आभासवदस्य ज्यायस्त्वम्
आभासवादेऽन्तःकरणमाभाससहितम्, अवच्छेदवादे तद्रहितं च भवति। द्वयोर्मध्ये आभासवादो ज्यायान्। भाष्यकारैराभासवाद एव स्वीकृतः। अवच्छेदवादे विद्यारण्यमुनयो दोषमप्याहुः। तथा हि, आभासरहितान्तःकरणावच्छिन्नचैतन्यस्य प्रमातृत्वाभ्युपगमे घटावच्छिन्नचैतन्यस्यापि प्रमातृत्वं प्रसज्येत। यतोऽन्तःकरणवद्घटोऽपि भूतकार्यम्, अन्तःकरणं यथा चैतन्यस्यावच्छेदकमथवा व्यावर्तकं तथा घटोऽपि चैतन्यस्यावच्छेदको व्यावर्तकश्च; तस्मादन्तःकरणविशिष्टचैतन्यमिव घटावच्छिन्नचैतन्यमपि प्रमाता भवेदित्यापत्तिरपरिहार्या। अन्तःकरणे आभासस्याङ्गीकारे तु नास्य दोषस्यावकाशः। तथा हि, अन्तःकरणं पञ्चतन्मात्रसमष्टिसत्त्वगुणकार्यत्वात् स्वच्छम्। घटादयः पञ्चीकृतपञ्चभूततमोगुणकार्यत्वादस्वच्छाः। यत् स्वच्छं तत्राभासऽथवा प्रतिबिम्बो जायते। मलिने पदार्थे नाभासो जायते। दर्पणस्य तत्पिधायककोशस्य च मृत्कार्यत्वाविशेषेऽपि स्वच्छे दर्पणे मुखस्याभासः प्रतीयते। अस्वच्छे दर्पणपिधायककोशे न मुखस्याभासः प्रतीयते। एवमेव सत्त्वगुणकार्यत्वात्स्वच्छेऽन्तःकरणे चैतन्याभासः प्रतीयते। तमोगुणकार्यत्वादस्वच्छे शरीरादौ घटादौ च चैतन्याभासो न प्रतीयते।