- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २१४-२१७ प्रमातृलक्षणम्
आवर्तः २१५ – आभासवादरीत्या जीवसाक्षिणोः स्वरूपम्
आभासवादे आभाससहितान्तःकरणं जीवस्य विशेषणम्, साक्षिण उपाधिश्च भवति। अत एवाभाससहितान्तःकरणविशिष्टचैतन्यं जीवः। आभाससहितान्तःकरणोपहितचैतन्यं साक्षी। यद्यपि पक्षद्वयेऽपि विशेषणसहितचैतन्यं जीवः, स एव संसारी च; तथापि विशेष्यभागे चैतन्ये जननमरणादिसंसारो न संभवति। तस्माद्विशेषणमात्रे संसारः पर्यवस्यति स एव विशिष्टचैतन्ये प्रतीयते। (१) क्वचिद्विशेषणगतधर्माणां व्यवहारो विशिष्टे भवति। (२) क्वचिद्विशेष्यगतधर्माणां व्यवहारो विशिष्टे भवति। (३) क्वचिद्विशेषणविशेष्योभयगतधर्माणां व्यवहारो विशिष्टे भवति। तथा (१) ‘दण्डेन घटाकाशो नश्यति’ इत्यत्र विशेषणीभूतघट एव दण्डेन नश्यति, न तु विशेष्यभूताकाशः। तथापि विशिष्टे घटाकाशे नाशः प्रतीतो भवति। (२) ‘कुण्डली पुरुषः स्वपिति’ इत्यत्र विशेषणे कुण्डले स्वापो नान्वेति; विशिष्ये पुरुषे तु स्वापः संभवति। तथापि ‘कुण्डलविशिष्टः स्वपिति’ इति विशिष्टे स्वापव्यवहारो भवति। (३) ‘आयुधपाणिः पुरुषो योद्धुं याति’ इत्यत्र विशेषणस्यायुधस्य विशेष्यस्य पुरुषस्य च युद्धाय गमनादुभयोरपि धर्मो विशिष्टे व्यवह्रियते।
प्रकृते त्ववच्छेदवादेऽन्तः करणं विशेषणम्, आभासवादे आभाससहितान्तःकरणं विशेषणम् द्वयोरपि पक्षयोश्चैतन्यं विशेष्यम्। तस्मिंश्चैतन्ये जन्मादिसंसारो न संभवति। किन्तु विशेषणस्यान्तःकरणस्य वा आभाससहितान्तःकरणस्य वा धर्मभूतो यो जन्मादिरूपः संसारः सोऽविवेकिभिर्भ्रान्त्या विशिष्टचैतन्ये व्यवह्रियते। व्यवहारो नाम प्रतीतिः कथनञ्च। अनया रीत्या आभासवादावच्छेदवादयोर्भेदोऽवगन्तव्यः।