ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्

- २००-२१८ प्रमातृलक्षणम्

आवर्तः २१४ – अवच्छेदवादरित्या प्रमातृसाक्षिणोः स्वरूपं, विशेषणलक्षणमुपाधिलक्षणं च

अवच्छेदवादरीत्या अन्तःकरणविशिष्टचैतन्यं प्रमाता। स एव कर्ता भोक्ता च। अन्तःकरणोपहितचैतन्यं साक्षी। एकमेवान्तःकरणं प्रमातुर्विशेषणत्वेन साक्षिण उपाधित्वेन च भवति।

विशेषणलक्षणम् – वस्तुस्वरूपे यस्य *१ प्रवेशः अस्ति, तादृशं व्यावर्तकं वस्तु विशेषणम् इत्युच्यते।

*१. प्रवेशः = कार्येण सह संबन्धः

कार्यान्वयित्वे सति व्यावर्तकत्वे सति विद्यमानत्वं विशेषणस्य लक्षणम्। पदार्थान्तरेभ्यो विविच्य वस्तुस्वरूपावेदकं यत् तत् व्यावर्तकम् इत्युच्यते। इतरेभ्यो भिन्नतया यद्बुध्यते तद्व्यावर्त्यम् इत्युच्यते। ‘नीलो घटः’ इत्यत्र घटस्य नीलवर्णं विशेषणम्। यतो नीलवर्णं नीलघटस्वरूपे प्रविष्टं सत् रक्तपीतश्वेतादिवर्णविशिष्टघटेभ्यो व्यावर्त्य पृथगिमं नीलघटं बोधयति, तस्मान्नीलवर्णं व्यावर्तकं विशेषणञ्च। घटस्तु परिच्छेद्यः, यतः पीतादिवर्णविशिष्टघटादिभ्यो विविच्यायं नीलघटो बुद्ध्यते। यस्तु विविच्य बुद्ध्यते पदार्थः, स हि परिच्छेद्यः, व्यावर्त्यः, विशेष्यम् इति चोच्यते। ‘दण्डी पुरुषः’ इत्यादावपि दण्डादिकं पुरुषस्य विशेषणम्।

इत्थं प्रमातुरन्तःकरणं विशेषणं भवति, तस्य प्रमातृस्वरूपे प्रवेशात्। तथा प्रमेयचैतन्याद्व्यावर्त्य प्रमातृस्वरूपस्य बोधकत्वादन्तःकरणं व्यावर्तकं च भवति।

उपाधिलक्षणम् – यस्तु वस्तुस्वरूपे अन्तरेणैव प्रवेशं व्यावर्तको भवति स उपाधिरित्युच्यते। कार्यानन्वयित्वे सति व्यावर्तकत्वे सति विद्यमानत्वमुपाधिलक्षणम्। नैयायिकमते ‘कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्’ इत्युच्यते। तत्र कर्णगोलकं श्रोत्रस्योपाधिर्भवति। कर्णगोलकं श्रोत्रेन्द्रियस्वरूपे प्रवेशमन्तरेणैव बाह्यभूताकाशाद्विविच्य श्रोत्रेन्द्रियं बोधयति। तस्मात् कर्णगोलकं व्यावर्तकं भवति। ‘घटाकाशः प्रस्थपरिमितान्नस्यावकाशं ददाति इत्यत्र घट आकाशस्योपाधिरेव। प्रस्थपरिमितान्नावाकाशदात्राकाशस्वरूपे प्रवेशं विनैव घटो महाकाशाद्विभज्य घटाकाशं बोधयति। घटस्य पृथिवीकार्यत्वेनावकाशप्रदत्वासंभवादाकाशस्वरूपे प्रवेशो न युज्यते। तस्माद्धट आकाशस्योपाधिरेव।

एवमेवान्तःकरणोपहितचैतन्यं साक्षीत्यत्र साक्षिणोऽन्तःकरणमुपाधिः। न ह्यन्तःकरणस्य साक्षिस्वरूपे प्रवेशो भवति। किन्त्वन्तःकरणं प्रमेयचैतन्याद्विविच्य साक्षिणं बोधयति। तस्मादेकमेवान्तःकरणं साक्षिण उपाधित्वेन प्रमातुर्विशेषणत्वेन च भवति। अन्तःकरणोपहितचैतन्यं साक्षी। अन्तःकरणविशिष्टचैतन्यं प्रमाता। उपाधिना युक्तम् उपहितम् इति विशेषणेन युक्तं विशिष्टम् इति चोच्यते। तत्रान्तःकरणविशिष्टः प्रमातैव कर्ता, भोक्ता, सुखी, दुखी, संसारी, जीवो भवति। इत्थम् अवच्छेदवादरीत्या प्रमात्रादिलक्षणं निरूपितम्।