- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
आवर्तः २१३ – प्रमातृप्रमाणप्रमेयचैतन्यानि
ननु वेदान्तसिद्धान्ते चक्षुरादीन्द्रियाणां प्रत्यक्षप्रमाकारणत्वं न युज्यते। तथा हि वेदान्तसिद्धान्ते चत्वारश्चैतन्यभेदाः सन्ति (१) प्रमातृचैतन्यम्, (२) प्रमाणचैतन्यम्, (३) प्रमितिचैतन्यमथवा प्रमाचैतन्यम्, (४) प्रमेयचैतन्यमथवा विषयचैतन्यमिति वेदान्तमते प्रमा नाम चैतन्यमेव। तच्च चैतन्यं नित्यम्, नेन्द्रियजन्यम्; तस्मान्नेन्द्रियं तत्कारणमिति चेत्। तन्न, चैतन्यस्य प्रमात्वापादिका वृत्तिरपि प्रमेत्युच्यते। तस्या वृत्तेरिन्द्रियं करणम्।
(१) प्रमातृचैतन्यम् – प्रमातृचैतन्यम् इत्युच्यते।
(२) प्रमाणचैतन्यम् – देहमध्यवृत्त्यन्तःकरणेनावच्छिन्नं चैतन्यं इदमेवान्तःकरणं चक्षुरादीन्द्रियद्वारा बहिर्निर्गत्य घटादिविषयदेशपर्यन्तं दीर्घीभावरूपपरिणामं प्राप्नोति। ततो घटादिविषयैः संसृज्य घटादितत्तद्विषयाकारेण च परिणमते। यथा तडाकोदकं प्रणालीद्वारा बहिर्निर्गत्य कुल्यात्मना परिणामं प्राप्य केदारान् प्रविश्य तत्तच्चतुष्कोणादिरूपकेदाराकारं तथैवान्तःकरणमपि चक्षुरादीन्द्रियच्छिद्रद्वारा बहिर्निर्गत्य विषयरूपकेदारं प्राप्य विषयाकारं भवति। तत्र देहदेशमारभ्य घटादिविषयदेशपर्यन्तं योऽन्तःकरणस्य दीर्घीभावरूपः परिणामः, स एव वृत्तिज्ञानम् इत्युच्यते। वृत्तिज्ञानरूपो योऽन्तःकरणपरिणामः स प्रमाणम् इति कथ्यते। तेनावच्छिन्नं चैतन्यं प्रमाणचैतन्यम् इत्यभिधीयते।
(३) प्रमितिचैतन्यमथवा प्रमाचैतन्यम् – केदारं प्रविश्य यथा जलं केदारसमाकारं भवति, तथा घटादिविषयं प्राप्यान्तःकरणवृत्तिरपि घटादिविषयसमानाकारतां भजते। तादृशविषयसमानाकारतयावच्छिन्नचैतन्यं प्रमाचैतन्यम् इत्युच्यते।
(४) प्रमेयचैतन्यमथवा विषयचैतन्यम् – ज्ञानविषयीभूतघटाद्यवच्छिन्नचैतन्यं विषयचैतन्यम्, प्रमेयचैतन्यम् इति चोच्यते। एताः सर्वा वेदार्थसंप्रदायविदाचार्यकृतपरिभाषाः।