- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
आवर्तः २१२ – षड्विधाः प्रमाः
इदानीं षड्विधप्रमा निर्दिश्यन्ते (१) प्रत्यक्षप्रमा, (२) अनुमितिप्रमा, (३) उपमितिप्रमा, (४) शाब्दी प्रमा, (५) अर्थापत्तिप्रमा, (६) अभावप्रमा चेति। पूर्वोक्तानि प्रत्यक्षादिप्रमाणानि क्रमेणैतासां षण्णां प्रमाणां करणानि भवन्ति।
करणलक्षणम्
तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् इत्युच्यते। *१ असाधारणकारणम् एव करणम्। यत् सकलकार्याणां तुल्यतया कारणं भवति, तत् साधारणकारणम्। कार्यत्वाविच्छन्ननिष्ठकार्यतानिरूपितकारणताशालि यत् तत् साधारणकारणम्। धर्माधर्मादिकं सकलकार्याणां कारणत्वात् साधारणकारणम्। सकलकार्याणां कारणभावमनासाद्य कतिपयकार्याणामेव विशिष्य कारणभावं यद्भजते तदसाधारणकारणम्। कार्यत्वातिरिक्तधर्मावच्छिन्ननिष्ठकार्यतानिरूपितकारणताशालि यत् तदसाधारणकारणम्। दण्डो हि न सकलकार्याणां कारणं भवति, किन्तु घटादिरूपकार्यविशेषाणामेव कारणं भवति। तस्माद्दण्डो घटादीनाम् असाधारणकारणमिति करणमिति चोच्यते। एवमेव प्रत्यक्षप्रमायाः ईश्वरस्तदिच्छादयश्च *२ साधारणकारणानि। यस्मादीश्वरादयः सकलकार्याणि प्रति कारणानि भवन्ति, यस्माच्च न किञ्चिदपि कार्यमीश्वरादिकं विनोत्पद्यते तस्मादीश्वरादयः साधारणकारणानि। चक्षुरादीनीन्द्रियाणि प्रत्यक्षप्रमां प्रत्यसाधारणकारणानि। अतस्तानि प्रत्यक्षप्रमां प्रति करणानि च भवन्ति। एवञ्च चक्षुरादीनीन्द्रियाणि प्रत्यक्षप्रमाणानीत्युच्यन्ते।
*१. केवलसाधारणकारणं करणमित्युक्ते यत्रासाधारणकारणद्वयं प्राप्तं तत्रेदमेव करणमिति विनिगमकाभावादेकस्य द्वाररूपकारणत्वमन्यस्य व्यापारवदसाधारणकारणत्वरूपकरणत्वं चाभ्युपेयम्। यत्तु द्वाररूपकारणं पुरस्कृत्य कार्यं जनयति, तदेवासाधारणकारणरूपं करणं भवति। तद्यथा कपालद्वयं, संयोगद्वारा घटस्योत्पादकत्वात्, घटं प्रति व्यापारवदसाधारणकरणरूपं करणम्। यत्तु व्यापारशून्यं सत् द्वारकारणमनपेक्ष्य साक्षादेव कार्यं जनयति, तत् केवलकारणम्, न तु करणम्। यथा कपालद्वयसंयोगः साक्षादेव घटोत्पादकत्वात् केवलकारणम्, न तु करणम्।
व्यापारवदसाधारणकारणं करणमित्यस्य लक्षणस्य प्रत्यक्षानुमानशब्दाख्यप्रमाणेषु संभवेऽपि उपमानार्थापत्त्यनुपलब्ध्याख्यप्रमाणेष्वसंभवादव्याप्तिः। उपमित्यादीनां जनने विनैव व्यापारमुपमानादीनां कारणत्वसंभवात् पूर्वोक्तकरणलक्षणस्य तत्राव्याप्तिः स्यात्। अतो व्यापारभिन्नमसाधारणकारणं करणमित्यस्य लक्षणस्य निर्दुष्टत्वात्तदेव सर्वप्रमाणानुगतकरणलक्षणम्।
*२. आदिशब्देन ईश्वरस्य ज्ञानम्, ईश्वरस्य प्रयत्नः कालः, दिक्, अदृष्टम्, प्रागभावः, प्रतिबन्धकाभावश्चेति सप्त गृह्यन्ते। अमी ईश्वरादयो नव सर्वकार्याणां साधारणकारणानि।