- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
आवर्तः २११ – स्मृतिरपि प्रमेति वादिनां पक्षः
अन्ये तु स्मृतिरूपज्ञानमपि प्रमेत्यभ्युपगच्छन्ति। तन्मतरीत्या प्रमालक्षणे न ‘स्मृतिभिन्नत्वम्’ देयम्। तन्मतेनाबाधितार्थविषयकज्ञानमेव प्रमेति वर्ण्यते। भ्रान्तिज्ञानं तु नाबाधितार्थविषयकम्, अपि तु बाधितार्थविषयकमेव। तस्मात्प्रमालक्षणस्य न भ्रान्तिज्ञानेऽतिव्याप्तिः। स्मृतिज्ञानमपि प्रमेत्यङ्गीकर्तृमते स्मृतिज्ञानमन्तःकरणस्य वृत्तिरूपं न त्वविद्याया वृत्तिरूपम्। नापि साक्ष्याश्रयम्, अन्तःकरणवृत्तेः प्रमात्राश्रयत्वेन साक्ष्याश्रयत्वाभावात्।
इत्थं केषाञ्चिन्मते स्मृतिज्ञानम् अन्तःकरणवृत्तिरूपत्वात् प्रमा भवति। केषाञ्चिन्मते तु अविद्यावृत्तिरूपत्वान्न प्रमा। भ्रान्तिज्ञानं संशयज्ञानं च सर्वमतस्थैरप्यविद्यावृत्तित्वेन साक्ष्याश्रितत्वेन चाभ्युपगम्यते। न विवादोऽस्त्यत्र। विचार्यमाणे तु स्मृतिज्ञानमप्यविद्यावृत्तिरूपं साक्ष्याश्रयं च; न *२ प्रमा। वेदान्तसंप्रदायज्ञा अपि प्रमाज्ञानं षोढा विभजन्ति। स्मृतेस्तत्रानन्तर्भूतत्वात् न स्मृतिज्ञानं प्रमा। मधुसूदनस्वामिनोऽपि स्मृतिज्ञानं साक्ष्याश्रयमित्येवावोचन्।
२. भ्रमरूपानुभवजसंस्कारजनितस्मृतिर्बाधितार्थविषयकत्वादयथार्थज्ञानम्। अत एव सा अविद्यावृत्तिः, नान्तः करणवृत्तिरूपा; किञ्च साक्षिणमाश्रिता, न प्रमातारम्। यथार्थानुभवजसंस्कारजनितस्मृतिरबाधितार्थविषयकत्वाद्यथार्थज्ञानं भवति। अत एव तादृशस्मृतिज्ञानमन्तःकरणवृत्तिरूपम्, नाविद्यावृत्तिरूपम्; प्रमातारमाश्रितम्, न साक्षिणम्। तथापि प्राचीना न स्मृतिज्ञानं प्रमेति व्यवहरन्ति। तस्माद्विविधस्मृतिरप्यप्रमैव। तयोरयथार्थस्मृतिः अयथार्थरूपा अप्रमा यथार्थस्मृतिः यथार्थरूपा अप्रमा इतीयानेव भेदः।