ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्


आवर्तः २१० – प्रमाणप्रमयोर्लक्षणम्

प्रमारूपज्ञानकरणम् प्रमाणम्। स्मृतिभिन्नत्वे सत्यबाधितार्थविषयकं ज्ञानं प्रमा। स्मृतिरूपं ज्ञानं न प्रमा। प्रमाज्ञानं हि प्रमातारमाश्रयति, स्मृतिस्तु न प्रमातारमाश्रिता; किन्तु साक्षिणमाश्रितेत्यभ्युपगम्यते। तथैव भ्रान्तिज्ञानसंशयज्ञाने च साक्ष्याश्रिते इत्यङ्गीकृतम्। अत एव स्मृतिर्भ्रान्तिः संशयश्चेत्येतत्त्रयमपि चिदाभाससहिताविद्याया वृत्तिरूपम्, नान्तःकरणस्य वृत्तिरूपम्। ततश्च तत्त्रयमपि न प्रमात्राश्रयं किन्तु साक्ष्याश्रयम्। यदेवान्तःकरणस्य वृत्तिरूपं ज्ञानं तदेव प्रमातारमाश्रयति। अन्तःकरणवृत्तिरूपं ज्ञानमेव प्रमेत्युच्यते। अन्तःकरणवृत्तिरूपत्वाभावादेव न स्मृतिः प्रमातारमाश्रयति; प्रमापि न सा भवति। अत एव स्मृतिभिन्नत्वं प्रमालक्षणे देयम्। स्मृतेरबाधितार्थविषयज्ञानत्वेऽपि न स्मृतिभिन्नत्वम्। तस्मादबाधितार्थविषयकं स्मृतिभिन्नमेव ज्ञानं *१ प्रमा इत्युच्यते। नास्मिन् लक्षणे दोषगन्धोऽप्यस्ति।

*१. यथार्थानुभवः प्रमेति स्मृतिव्यावृत्तं प्रमालक्षणम्। यथार्थज्ञानं प्रमेति प्रमालक्षणं तु स्मृतिसाधारणमिति विवेकः।