-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २०४-२०९ प्रमाणप्रसङ्गात्प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिप्रमाणानि निरूप्यन्ते

आवर्तः २०९ – अनुपलब्धिप्रमाणम्
पूर्वमीमांसको भट्टः षष्ठीम् अनुपलब्धिमपि प्रमाणत्वेनाङ्गीकरोति। वेदान्तिभिरपि षट् प्रमाणान्येवाङ्गीक्रियन्ते। ‘व्यवहारे भट्टनयः’ इति न्यायात्। गृहाद्यधिकरणेषु घटादेरभावज्ञानमनुपलब्धेः प्रमाणत्वाभ्युपगमे प्रयोजनम्। यस्य पदार्थस्य प्रतीतिर्न भवति तत्पदार्थविषयकाभावज्ञानं जायते। अस्या अप्रतीतेरनुपलब्धिरिति संज्ञा। घटादेरप्रतीत्या घटादेरभावनिश्चयो जायते। इत्थं पदार्थप्रतियोगिकाभावनिश्चयं प्रति कारणीभुतपदार्थाप्रतीतिरेवानुपलब्धिप्रमाणम् इत्युच्यते।