ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २०४-२०९ प्रमाणप्रसङ्गात्प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिप्रमाणानि निरूप्यन्ते


आवर्तः २०८ – अर्थापत्तिप्रमाणम्

पूर्वमीमांसकैकदेशी भट्टशिष्यः प्रभाकरः पञ्चमीम् अर्थापत्तिमपि प्रमाणत्वेनाभ्युपगच्छति। दिवा अभुञ्जानस्य पुरुषस्य पीनत्वं दृष्ट्वा ‘अयं रात्रौ भुङ्क्ते’ इति निश्चयो जायते; रात्रिभोजनमन्तरा दिवा अभुञ्जानस्य पीनत्वानुपपत्तेः। भोजनं पीनत्वहेतुरित्यतः पीनत्वं रात्रिभोजनस्य कार्यम्। रात्रिभोजनं पीनत्वस्य कारणम्। तत्र पीनत्वमुपपाद्यम्, रात्रिभोजनमुपपादकम्। तथा चोपपादकरात्रिभोजनस्य ज्ञानं प्रति कारणभूतपीनत्वरूपोपपाद्यज्ञानम् अर्थापत्तिप्रमाणम् इत्युच्यते।