ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २०४-२०९ प्रमाणप्रसङ्गात्प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिप्रमाणानि निरूप्यन्ते


आवर्तः २०७ – उपमानप्रमाणम्

न्यायशास्त्रप्रणेतृगौतममतानुसारिणश्चतुर्थमुपमानमपि प्रमाणत्वेनाभ्युपगच्छन्ति। तथा हि कश्चित् गवयमृगमजानानः कुतश्चिदारण्यकपुरुषात् ‘गवयो गोसदृशः’ इति श्रुत्वा कदाचिदरण्यं गत्वा यदा गवयमृगं पश्यति, तदा आरण्यकपुरुषोक्तं ‘गोसदृशो गवय’ इति वाक्यं तदर्थं च स्मरति। तादृशस्मरणानन्तरं ‘अयं गवयः’ इति ज्ञानं तस्य जायते। तच्च ज्ञानं न स्यात् प्रत्यक्षादिप्रमाणत्रयमात्रमभ्युपगम्योपमानप्रमाणस्यानभ्युपगमे। तस्मादेतादृशविलक्षणज्ञानहेतुभूतम् उपमानप्रमाणम् अङ्गीकुर्वन्ति गौतममतानुसारिणः।