ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २०४-२०९ प्रमाणप्रसङ्गात्प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिप्रमाणानि निरूप्यन्ते


आवर्तः २०६ – शब्दप्रमाणम्

साङ्ख्यशास्त्रप्रणेतृकपिलमतानुसारिणस्तु तृतीयं शब्दमपि प्रमाणत्वेनाङ्गीकुर्वन्ति। तथा हि, देशान्तरे कस्यचित् पिता मृतः। आप्तः कश्चित्तं वृत्तान्तं तत्पुत्रायाचख्यौ। आप्तवाक्यात् पुत्रः पितृमरणं निश्चिनोति। तच्च न स्यात् प्रत्यक्षानुमानात्मकप्रमाणद्वयमात्राङ्गीकारे; देशान्तरोत्पन्नपितृमरणज्ञानस्य प्रत्यक्षानुमानाभ्यामसंभवात्। तस्मात् कपिलमतानुसारिणः प्रत्यक्षानुमानशब्दात्मकं त्रयमपि प्रमाणत्वेनाङ्गीकुर्वन्ति।