-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
- २०४-२०९ प्रमाणप्रसङ्गात्प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिप्रमाणानि निरूप्यन्ते

आवर्तः २०५ – अनुमानप्रमाणम्
*२ *३ कणादसुगतमतानुसारिणो द्वितीयमनुमानमपि प्रमाणत्वेनाङ्गीकुर्वन्ति। प्रत्यक्षस्यैकेन प्रमाणत्वाङ्गीकारे तृप्तिमिच्छतो भोजने प्रवृत्तिर्न स्यात्; भाविभोजने तृप्तिनिरूपितहेतुत्वस्य प्रत्यक्षप्रमाणजन्यप्रत्यक्षज्ञानाभावात्। अतः ‘आगामिभोजनं तृप्तिकारणम्, भोजनत्वात्, पूर्वानुभूतभोजनवत्; इत्यनुमानेन पूर्वभोजनेऽनुभूतं यत्तृप्तिहेतुत्वं तद्भाविभोजनेऽपि ज्ञात्वा तृप्तिकामो भोजने प्रवर्तत इति वाच्यम्। तस्मादनुमानमपि प्रमाणम्। इत्थं कणादसुगतमतानुसारिणः प्रत्यक्षमनुमानं चेति द्वयमपि प्रमाणत्वेनाङ्गीकुर्वन्ति।
*२. अयमेव वैशेषिकशास्त्रकर्ता। अयं कणभुगिति चोच्यते।
*३. सुगतः = बुद्धः।