ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्

- २००-२१८ प्रमाणप्रसङ्गात्प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यनुपलब्धिप्रमाणानि निरूप्यन्ते

आवर्तः २०४ – प्रत्यक्षप्रमाणम्

*१ चार्वाकमतस्थाः प्रत्यक्षमेकमेव प्रमाणमित्यङ्गीकुर्वन्ति।

*१. भूतपञ्चकमङ्गीकृत्य तत्कार्यभूतो देह एवात्मेति वदन्ति लोकायतिकाः। आकाशं विना भूतचतुष्टयमात्रमङ्गीकृत्य तत्कार्यभूतो देह एवात्मेति वदन्ति चार्वाकाः।