- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
आवर्तः २०३ – अत्र दृष्टान्तः
तमसि मृद्भाण्डेन केनचित् मृण्मयं लोहमयं वा किञ्चिद्वस्तु संवृतमास्ते। तत्र दण्डादिना मृद्भाण्डे आवरणे भग्नेऽपि विना तु दीपादिप्रकाशं तदन्तःस्थं वस्तु न प्रकाशते, अपि तु दीपादिनैव प्रकाशते। तथाज्ञानावृतघटादेर्विषयस्यावरणे वृत्त्या विनाशितेऽपि न घटादिरूपविषयः प्रकाशेत। यतो घटादिर्विषयो जडः, वृत्तिरपि जडा; तस्याः विषयावरणनिवृत्तिमात्रं प्रयोजनम्, न त्वनया विषयप्रकाशो जायेत। तस्मात् घटदादिविषयावभासको वृत्तिस्थचिदाभास एव।
चक्षुरिन्द्रियगोचरवस्तुप्रत्यक्षज्ञानं पूर्वोक्तक्रमेण जायते। श्रोत्रादीन्द्रियगोचरपदार्थप्रत्यक्षज्ञानमपि *१ इत्थमेव जायत इति विज्ञेयम्। वृत्तिविषययोरेकदेशस्थत्वात् घटज्ञानं प्रत्यक्षम् इत्युच्यते।
*१. (१) श्रोत्रेन्द्रियेण शब्दसाक्षात्कारसमये श्रोत्रेन्द्रियद्वारा बहिर्निर्गतान्तःकरणस्य साभासा वृत्तिर्दूरस्थं वान्तिकस्थं वा शब्दरूपं विषयं प्राप्य शब्दसमानाकारतां भजते। तदान्तःकरणवृत्त्या शब्दनिष्ठावरणं निवर्त्यते। तन्निष्ठाभासेन शब्द ः प्रकाशते।
(२) त्वगिन्द्रियेण स्पर्शगुणस्य तदाश्रयघटादिद्रव्यस्य च साक्षात्कारसमये अन्तःकरणवृत्तिः शरीरात्मकगोलकं विहाय न बहिर्गच्छति। किन्तु शरीराश्रयया अन्याश्रयया वा क्रियया शरीरात्मकगोलकेन सह सम्बद्धं घटादिविषयं तदाश्रितमृदुकठिनादिस्पर्शांश्च शरीररूपगोलके एव स्थित्वा साभासा वृत्तिर्विषयीकरोति। तदा वृत्त्या घटाद्याश्रयस्य तदाश्रितस्पर्शादिगुणस्य चावरणभङ्गो जायते। तन्निष्ठचिदाभासेन घटादिविषयतद्गतस्पर्शो प्रकाश्येते।
(३) रसनेन्द्रियेण मधुराम्लादिरससाक्षात्कारसमये अन्तःकरणवृत्तिजिह्वारूपगोलकं विहाय न बहिर्गच्छति। किन्तु जिह्वया रसात्मकविषयसंयोगसमये जिह्वाग्रवर्तिरसनेन्द्रियनिष्ठसाभासान्तः करणवृत्तिः रसं विषयीकरोति। तदा वृत्त्या रसस्यावरणभङ्गो भवति। तत्स्थचिदाभासेन मधुरादिरसविशेषः प्रकाश्यते।
(४) घ्राणेन्द्रियेण गन्धसाक्षात्कारसमये नासारूपगोलकेन सह गन्धाश्रयपुष्पादेः तत्सूक्ष्मावयवस्य वा संयोगे नासाग्रवर्तिघ्राणेन्द्रियनिष्ठसाभासान्तःकरणवृत्तिः पुष्पादिद्रव्याश्रितगन्धमात्रं विषयीकरोति। तदा वृत्त्या गन्धस्यावरणं भज्यते। चिदाभासेन गन्धः प्रकाश्यते।
इत्थं श्रोत्रादीन्द्रियविषयाणां प्रत्यक्षक्रमो विज्ञेयः।
अन्तःकरणवृत्तिर्यदा घटादिविषयैः सह संबन्धालाभात् बहिर्निर्गमनाभावेनान्तरेव घटाकारा भवति, तदा जायमानं घटादिज्ञानं परोक्षज्ञानम् इत्युच्यते। ‘अयं घटः’ इत्यपरोक्षज्ञानस्याकारः। ‘घटोऽस्ति’ इति सः घटः’ इति वा परोक्षज्ञानस्याकारः। स्मृतिरपि परोक्षज्ञानमेव। तथापि स्मृतिः अनुभवाहितसंस्कारजन्या, अनुमित्यादिपरोक्षज्ञानं तु प्रमाणजन्यमितीयान् भेदः।