- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्
आवर्तः २०२ – बाह्यार्थप्रकाशे वृत्तिचिदाभासयोरुपयोगः
अत्रेदं बोध्यम् – चैतन्याद्भिन्नं सदसद्विलक्षणमज्ञानं चैतन्यमाश्रित्य वर्तते; तेन च चैतन्यमावृतं भवति। तदेव घटादिस्वरूपाद्विभिन्नमज्ञानं घटाद्यनाश्रितमपि स्वसदृशं प्रकाशशून्यं जडस्वभावं घटादिरूपं कार्यं जनयति। तस्माद्घटादिवस्तु अन्धवत्सदा आवृतमेव भवति। अयं च घटादीनामावृतत्वस्वभावोऽज्ञानहेतुकः। तथा हि, तमोगुणप्रधानादज्ञानात् पञ्चभूतोत्पत्तिद्वारा घटादयो जायन्ते। तमोगुणश्चावरणस्वभावकः। तस्मात् घटादयः प्रकाशशून्या अन्धीभूता एव वर्तन्ते। एवमन्धतारूपमावरणं घटादावज्ञानकार्यत्वात् स्वभावतः सिद्धम्। घटाद्यधिष्ठानचैतन्यमाश्रित्य वर्तमानमज्ञानं चैतन्यमावृत्य, स्वभावत एवावृतं घटादिकमप्यावृणोति।
स्वभावत एव संवृतपदार्थस्य पुनः संवरणे प्रयोजनाभावेऽपि, आवारकः पदार्थः स्वप्रयोजनापेक्षां विनैवानावृतपदार्थवदेवावृतमपि पदार्थं पुनरावृणोत्येव। एतच्च सर्वलोकप्रसिद्धम्। तादृशाज्ञानावृतघटादिसंयुक्तान्तःकरणपरिणामरूपायां चिदाभाससहितघटाद्याकारवृत्तौ यो वृत्तिभागः स घटादीनामावरणं निवर्तयति। चिदाभासभागः तु घटादिविषयं प्रकाशयति। इत्थं बाह्यपदार्थप्रकाशविषये वृत्तितत्स्थचिदाभासयोरुभयोरपि विनियोगो भवति।