ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १६९-२२५ पूर्वोपदिष्टविषये आक्षेपसमाधानानि
- १९९-२१८ कूटस्थाभासयोः “अहंवृत्तौ” भानं किं क्रमेणोत क्रमं विनेति विचारः
- २००-२१८ पूर्वप्रश्नस्योत्तरम्


आवर्तः २०१ – चैतन्यमेवाज्ञानस्याश्रयो विषयश्च

घटादिर्विषयस्तमोगुणकार्यत्वात्स्वरूपतो जडः। तस्मादज्ञानं तत्कार्यमावरणं च जडे घटादिविषयेऽस्तीत्याहुः केचन। तदिदमापातरमणीयम्। विचारदृष्ट्या तु चैतन्ये एवाज्ञानतत्प्रयुक्तावरणे स्तः, न तु घटादौ विषये। अज्ञानं चैतन्यमेवाश्रित्य तदेव विषयीकरोतीति वेदान्तसिद्धान्तः।

आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।
पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः॥
(सं. शा. १.३१९) इति वृद्धोक्तेः।

प्राक् सप्तावस्थानिरूपणप्रसङ्गे अज्ञानाश्रयोऽन्तःकरणविशिष्टचिदाभास इत्युक्तम्। स चाज्ञानस्याभिमानी आश्रयः। ‘अहमज्ञः’ इत्यभिमानोऽन्तःकरणसहिताभासस्य जायते इति यावत्। तस्मादाभासोऽज्ञानाश्रय इत्युच्यते। *१ मुख्याश्रयस्तु चैतन्यमेव, नाभाससहितान्तःकरणम्; आभाससहितान्तःकरणस्याज्ञानकार्यत्वात्। यद्यस्य कार्यं न तत्तस्याश्रयो भवेत्। तस्मादज्ञानस्य केवलचैतन्यमेवाधिष्ठानरूपाश्रयः।

*१. यथा धनादिकोशस्य मुख्याश्रयः पेटिका, ‘अहं धनी’ इत्यादौ धनस्याभिमानिरूपाश्रयः पुरुषः; तथाज्ञानस्य मुख्याश्रयश्चैतन्यम्, अभिमानिरूपाश्रयस्तु चिदाभासविशिष्टान्तःकरणम्।

विषयश्च तस्य चैतन्यमेव। स्वरूपतिरस्कार एवाज्ञानविषयत्वमित्युच्यते। एतदज्ञानकृत्यमावरणं जडवस्तुनि न युज्यते। जडवस्तुनः स्वरूपत एवावृतत्वात्तत्राज्ञानकृत्यावरणस्य प्रयोजनाभावात्। तथाचाज्ञानं स्वाश्रयचैतन्यमेव विषयीकरोति। यथा गृहान्तःस्थं तमः स्वाश्रयभूतं गृहमेवावृणोति तद्वत्। तस्माद्घटादौ जडेऽज्ञानावरणे न संभवतः।